SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ नन्दी 18 धानविशेषतो द्विसमयादिसिद्धाभिधानामिति, शेष प्रकटार्थ, यावत् तं समासतो इत्यादि, तदिति सामान्येन केवलज्ञानमभिगृ- केवलोप |हते, द्रव्यतः केवलज्ञानी सर्वद्रव्याणि-धर्मास्तिकायादीनि साक्षाज्जानाति पश्यति, क्षेत्रतः केवलज्ञानी सर्व क्षेत्रं लोकालो- योगवादः वृत्ती कभेदभिन्नं साक्षाज्जानाति पश्यति, (ग्र. १०००) इह च धर्मास्तिकायादिसर्वद्रव्यग्रहणे सत्यप्याकाशास्तिकायस्य क्षेत्रत्वेन रू-18 ॥५२॥ ढत्वाद् भेदेनोपन्यासः, कालतः केवलज्ञानी सर्व कालमतीतानागतवर्तमानभेदभिन्नं साक्षाज्जानाति पश्यति, भावतः केवलज्ञानी | सर्वान् जीवाजीवगतान् भावान् गतिकषायाद्यगुरुलघुलक्षणादीन् साक्षाज्जानाति पश्यति । ___ इह च केवलज्ञानदर्शनोपयोगचिन्तायां क्रमोपयोगादौ सूरीणामनेकविधा विप्रतिपत्तिः अतः संक्षेपतो विनेयजनानुग्रहाय तत्प्रदशनं क्रियत इति, तत्र केई भणंति जुगवं जाणइ पासइ य केवली णियमा । अन्ने एगंतरियं इच्छंति सुओवदेसेणं॥१॥ अन्ने ण चेव वीसुंदसणमिच्छति जिणवरिंदस्स । जं चिय केवलनाणं तंचिय से दंसणं किंति ॥२॥ गाथाद्वयम् , अस्य व्याख्या केचन सिद्धसेनाचार्यादयः भणंति, किं?, युगपद्-एकस्मिन्नेव काले जानाति पश्यति च, कः?, केवली, न त्वन्यः, नियमात्नियमेन ॥ अन्ये जिनभद्रगणिक्षमाश्रमणप्रभृतयः एकान्तरितं जानाति पश्यति चेत्येवमिच्छान्त, श्रुतोपदेशेन यथाश्रुतागमानुसारेणेत्यर्थः, अन्ये तु वृद्धाचार्याः न नैव विष्वक् पृथक् तदर्शनमिच्छन्ति जिनवरेन्द्रस्य, केवलिन इत्यर्थः, किं तर्हि?, य ॥५२॥ देव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं त्रुवते, क्षीणावरणस्य देशज्ञानाभाववत् केवलदर्शनाभावादिति भावना, अयं गाथाद्वयार्थः । साम्प्रतं युगपदुपयोगवादिमतप्रदर्शनायाह-जं केवलाई सादी अपज्जवसियाई दोवि भणियाई । ता चिंति, केइ जुगवं जाणइ पासइ य सव्वन्नू ॥३॥ यस्मात् केवलज्ञानदर्शने साद्यपर्यवासिते द्वे अपि भाणते ततः ब्रुवते केचन सि
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy