________________
सिद्धकेवलज्ञानं
वृत्ती
नन्दी- रिति, उपधिस्तु स्वयंयुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधःप्रावरणवजेः, स्वयंबुद्धानां पूर्वाधीतश्रुते अनियमः, हारिभद्रीय प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिंगप्रतिपत्तिः स्वयम्बुद्धानां आचार्यसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छ-
तीत्यलं विस्तरेण । 'बुद्धबोधितसिद्धाः' बुद्धा:-आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते, एते च सर्वेऽपि केचित् स्त्रीलिंग॥ ५१ ॥4
सिद्धाः केचित् पुल्लिंगसिद्धाः केचिनपुंसकलिंगसिद्धा इति, आह- तीर्थकरा अपि स्त्रीलिंगसिद्धा भवन्ति ?, भवन्तीत्याह, यत उक्तं सिद्धप्राभृते- 'सव्वत्थोवा तित्थगरीसिद्धा, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा, तित्थगरतित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणाओ, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा' इति, न तु नपुंसकलिंगः, प्रत्येकबुद्धास्तु पुंल्लिंगा एव, स्वलिंग| सिद्धा द्रव्यलिंग प्रति रजोहरणगोच्छकधारिणः, अन्यलिंगसिद्धाः परिव्राजकादिलिंगे सिद्धाः, गृहिलिंगसिद्धा मरुदेवीप्रभृतयः, एक्कसिद्धा इति एकस्मिन् समये एक एव सिद्धः, 'अणेगसिद्धा' इति एकस्मिन् यावद् अष्टशतं सिद्धं, यत उक्तम्-बत्तीसा अडयाला सट्टी बावत्तरी य बोद्धव्वा। चुलसीती छनउई दुरहिय अठुत्तरसयं च ॥१॥ अत्राह चोदक:-ननु सर्व एवैते भेदास्तीर्थसिद्धाती
थसिद्धभेदद्वयान्तर्भाविनः, तथाहि-तीर्थसिद्धा एव तीर्थकरसिद्धाः, अतीर्थकरसिद्धा अपि तीर्थ[कर]सिद्धा वा स्युः अतीर्थसिद्धा वेत्येवं ४ शेषेष्वपि भावनीयमिति, अतः किमेभिरिति, अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभेदाप्रतिपत्तेः, अज्ञातज्ञापनार्थ च भेदाभिधानमिति । 'सेत'मित्यादि, निगमनम् ॥
'से किं तं परम्पर' इत्यादि ॥ २२-१३३ ॥ न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः- परम्परसिद्धविशेषणप्रथम| समयवर्तिनः, सिद्धत्वद्वितीयसमयवर्तिनः इत्यर्थः, व्यादिषु तु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयसिद्धा अभि