________________
नन्दीहारिभद्रीय वृत्तौ
॥ ५० ॥
'से किं तमित्यादि ॥ (२०-११३) ।। अथ किं तत् सिद्धकेवलज्ञानं ?, सिद्धकेवलज्ञानं द्विविधं प्रज्ञतं, तद्यथा - अनन्तरसिद्धकेवलज्ञानं च परम्परसिद्ध केवलज्ञानं च, तत्र शैलेश्यवस्थापर्यन्तवर्त्तिसमयसमासादितसिद्धत्वस्य तस्मिन्नेव समये यत् केवलज्ञानं तदनन्तरसिद्ध केवलज्ञानं, ततो द्वितीयादिसमयेष्वनन्तामप्यनागताद्धां परम्परसिद्ध केवलज्ञानमिति ॥
'से किं त' मित्यादि ॥ (२१-१३०) || प्रश्नसूत्रस्य निर्वचनम् - अनन्तरसिद्ध केवलज्ञानं पंचदशविधं प्रज्ञसं, सिद्धानामेवानन्तरभवगतोपाधिभेदेन पंचदशभेदभिन्नत्वात्, पंचदशभेदभिन्नतामेव दर्शयन्नाह तद्यथा-तीर्थसिद्धा इत्यादि, तत्र येनेह जीवा जन्मजरामरणसलिलं मिथ्यादर्शनाविरतिगंभीरं विचित्रदुःखगणकरिमकरं रागद्वेषपवनप्रक्षोभितमनन्तसंसारसागरं तरन्ति तत्तीर्थमिति, तच्च यथाऽवस्थितसकलजीवाजीवादिपदार्थप्ररूपकं अत्यन्तानवद्यान्याविज्ञातचरणकरणक्रियाधारं अचिन्त्यशक्तिसमन्विताविसंवाघुडुपकल्पं चतुस्त्रिंशदतिशयसमन्वितपरमगुरुप्रणीतं प्रवचनम्, एतच्च संघः प्रथमगणधरो वा, तथा चोक्तम्- “तित्थं भंते तित्थं, तित्थकरे तित्थं ?, गोयमा ! अरिहा नियमा ताव तित्थंकरे, तित्थं पुण चाउब्वण्णो समणसंघो पद्मगणहरो वा" इत्यादि, ततश्च तस्मिन्नुपपन्ने ये सिद्धास्ते तीर्थसिद्धाः, अतीर्थसिद्धास्तीर्थान्तरसिद्धा इत्यर्थः, श्रूयते च 'जिणन्तरे साहुवोच्छेओ'ति, तत्रापि जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिध्यन्ति एव, मरुदेविप्रभृतयो वाऽतीर्थसिद्धास्तदा तीर्थस्यानुत्पन्नत्वात्, तीर्थकरसिद्धास्तीथेकरा एव, अतीर्थकरसिद्धा अन्ये सामान्यकेवलिनः, स्वयम्बुद्धाः सन्तो ये सिद्धास्ते स्वयंबुद्धसिद्धाः, प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धा इति । अथ स्वयं बुद्धप्रत्येकबुद्धयोः कः प्रतिविशेष इति, उच्यते, बोध्युपधिश्रुतलिंगकृतो विशेषः, तथाहि स्वयंबुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, प्रत्येकबुद्धास्तु न तद्विरहेण श्रूयते च बाह्यवृषभादिप्रत्ययसापेक्षा करकंड्वादीनां प्रत्येकबुद्धानां बोधि
सिद्धकेवलज्ञानं
|11 40 11