SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ नन्दीहारिभद्रीय वृत्तौ ॥ ४९ ॥ ष्ठितो, न पुनः साधनीयः, सिद्धोदनवत् स सिद्धः, स च कर्मसिद्धादिमेदादनेकविधः, उक्तं च-'कम्मे सिप्पे य विज्जा य, मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय ॥ १ ॥ इह कर्मक्षयसिद्धेनाधिकारः, स चाशेषकर्माशक्षयात् कर्मक्षयसिद्धः सितध्वंसित्वात् सिद्धः, 'सिं वर्णगन्धनयो रिति सितं बद्धमष्टप्रकारं कर्म तद् ध्वंसितुं शीलमस्येति सितध्वंसी सिद्धः, तस्य केवलज्ञानं २ ॥ 'से किं तमित्यादि, अथ किं तद् भवस्थकेवलज्ञानं१, २ द्विविधं प्रज्ञप्तं, तद्यथा-सयोगिभवस्थ केवलज्ञानं च अयोगिभवस्थकेवलज्ञानं च, इह युज्यन्त इति योगाः कायादयः, उक्तं च- 'कायवाङ्मनः कर्म योगः ' तत्रैौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणति| विशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्यात् जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसा चिव्याज्जीवव्यापारो मनोयोगः, तद्यथासम्भवं योगोऽस्य विद्यत इति सयोगी सयोगी चासौ भवस्थश्च २, तस्य केवलज्ञानं, एवं न योगी २ स च भवस्थश्च तस्य केवलज्ञानं २, शैलेश्यवस्थागतस्येत्यर्थः, अथ किं तत् सयोगिभवस्थकेवलज्ञानं १, २ द्विविधं प्रज्ञप्तं, तद्यथा प्रथमसमयसयोगिभवस्थकेवलज्ञानं च अप्रथमसमयसयोगिभवस्थकेवलज्ञानं च, तत्र प्रथमसमयस्तत्प्रथमतयोत्पत्तिसमय एव गृह्यते, न प्रथमोऽप्रथमः-द्वितीयादयः सर्व एव शैलश्यवस्थाप्राप्तेरप्रथमसमया इति, अथवेत्यन्यथा प्रतिपाद्यते, 'चरमसमये 'त्यादि, तत्र चरमः सयोगिकालान्त्यसमयः, न चरमोऽचरमः पश्चानुपूर्व्या चरमादारभ्य सर्व एवाकेवलप्राप्तेरचरमा इति । ' सेत ' मित्यादि निगमनम् 'से किं तमित्यादि, अत्रापि शैलश्यवस्थाभाविकेवलज्ञानमधिकृत्यैवमेव भावनीयमलं विस्तरेण । 'सेत' मित्यादि, निगमनम्, तदेतद्भवस्थकेवलज्ञानम् ॥ केवलज्ञानं ॥ ४९ ॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy