SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अवधे विषयः अबाह्याश्च नन्दी जघन्येन अनन्तानन्तान् भावान्-पर्यायान्, आधारद्रव्यानन्तत्वात्, न तु प्रतिद्रव्यमिति, उत्कृष्टतोऽनन्तान् भावान् जानाति पश्यति, हारभद्रायतेऽपि चोत्कृष्टपदिनः सर्वभावानां सर्वपर्यायाणामनन्तभाग इति ॥ इत्थमवधिज्ञानं भेदतोऽप्यभिधाय साम्प्रतं संग्रहगाथामाहवृत्ती ओही भव० इत्यादि (* ५६-९८ ) अवधिर्भवप्रत्ययो गुणप्रत्ययश्च वर्णितो व्याख्यातः एषः अनन्तरं, पाठान्तरं वा ॥४१॥ वर्णितो द्विविधः, तस्य द्विविधस्यापि बहवो विकल्पा द्रव्यत इति द्रव्यविषयाः परमाणुकादिद्रव्यभेदात् क्षेत्रत इति क्षेत्रविषया अंगुलासङ्खयेयभागादिविशिष्टक्षेत्रभेदात् , कालत इति कालविषयाः आवलिकाऽसख्येयभागायुपलक्षितकालभेदात् , चशब्दादावविषयाश्च, वर्णाधनेकप्रकारत्वाद्भावानामिति गाथार्थः॥ एवं तावदवधिज्ञानमभिधाय साम्प्रतं ये बाह्यावधयो ये चाभ्यन्तरावधयो | भवन्ति तानुपदर्शयन्नाह रइय० गाहा (* ५७-९८) नारकाश्च देवाश्च तीर्थकराश्चेति समासः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः प्रयोग इति दर्शयिष्यामः, एते नारकादयः अवधेः अवधिज्ञानस्य न बाह्या अबाह्या भवन्ति, इदमत्र हृदयम्--अवध्युपलब्धक्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात् प्रदीपवत् अबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः, तथा पश्यति सर्वतः सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽप्येवकारार्थः, स चावधारणे, सर्वास्वेव दिविति, आह-अवधेरवाह्या भवन्तीत्यस्मादेव सर्वत इत्यस्य सिद्धत्वात् सर्वतो ग्रहणमतिरिच्यत इति, अत्रोच्यते, नन्चभ्यन्तरत्वे सत्यपि न सर्वे सर्वतः पश्यन्ति, दिगन्तरालादर्शनाद्, अवधेविचित्रत्वात्, अतो नातिरिच्यते इति, शेषास्तियनराः देशेनेत्येकदेशेन पश्यन्ति, अत्रेष्टतोऽवधारणविधेः शेषा एव देशतः SALESECRECCANARASCUSS
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy