SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ TAGR नन्दी- पाति आकेवलप्राप्तेरवधिज्ञानमिति, अयमत्र भावार्थ:-एतावत्क्षयोपशमसम्प्राप्तात्मा विनिहतप्रधानप्रतिपक्षयोद्धसंघात इव नरपतिन अवधिहारिभद्रीय है है पुनः कर्मशत्रुणा परिभूयते, किं तर्हि ?, समासादितैतावदालोक एवाप्रतिनिवृत्तः शेषमपि कर्मशत्रु विनिर्जित्याप्नोति केवलराज्य-51 विषयाः वृत्ती | श्रियमिति, लोकालोकविभागस्त्वयं-जीवादीनां वृत्तिद्रव्याणां भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् | द्रव्यादयः ॥४०॥ ॥१॥ 'सेत' मित्यादि, तदेतदप्रतिपात्यवधिज्ञानमिति ॥ व्याख्याताः षड्भेदाः, साम्प्रतं द्रव्यादिविषयापेक्षया भेदतोऽ| वधिज्ञानमेव निरूपयन्नाह 'तं समासओ' इत्यादि ॥ (१६-९७)॥ तदवधिज्ञानं समासतः संक्षेपण चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो टू भावत इति, तत्र द्रव्यतः णमिति वाक्यालंकारे अवधिज्ञानी जघन्येनानन्तानि द्रव्याणि तैजसभाषाद्रव्याणामपान्तरालवर्तीनि, यत उक्तम्- 'तेयाभासादब्वाण अंतरा एत्थ लभइ पट्ठवओ'-त्ति, उत्कृष्टतः सर्वरूपिद्रव्याणि बादरसूक्ष्मभेदभिन्नानि जानाति विशेषाका| रेण, पश्यति सामान्याकारण, आह-आदौ दर्शनं ततो ज्ञानमिति क्रमः तत् किमर्थमेन परित्यज्य प्रथमं जानातीत्युक्तम् ?, अत्रो| च्यते, इहावधिज्ञानाधिकारात प्राधान्यख्यापनार्थमादौ जानातीत्युक्तं, अवधिदर्शनस्य त्ववधिविभंगसाधारणत्वात् पश्चात् पश्यतीति, अथवा सर्वा एव लब्धयस्सांकारोपयोगोपयुक्तस्योत्पद्यन्त इति, अवधेश्च लब्धित्वादित्यस्यार्थस्य ख्यापनार्थमादौ जानातीत्याह, ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति, क्षेत्रतः अवधिज्ञानी जघन्येनांगुलस्यासंख्येयभाग, उत्कृष्टतोऽसंख्येयानि अलोके | केवलाकाशास्तिकाये शक्तिमपेक्ष्य लोकप्रमाणानि खण्डानि जानाति पश्यति, कालतोऽवधिज्ञानी जघन्येनावलिकासंख्येयभागं उत्कृ[ष्टतोऽसंख्येया अवसर्पिण्युत्सर्पिणीरतीतं चानागतं च कालं जानाति पश्यतीति, भावार्थः प्राक् प्रतिपादित एव, भावतोऽवधिज्ञानी CARE 5 5555
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy