SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ नन्दीहारिभद्रीय वृत्ती ॥४२॥ मनःपर्यायाधिकारः 3454545453 पश्यन्ति, न तु देशत एवेति गाथार्थः॥ अथवाऽन्यथा व्याख्यायते-एवं तावदवधिज्ञानमभ्यधायि, साम्प्रतं ये नियतावधयो ये चानियतावधयो भवन्ति तान् प्रतिपादयत्राह-"नेरइय' गाहा, नारका देवास्तीर्थकरा एव अवधेरवाह्या भवन्ति, किमुक्तं भवति ?-नियतावधयो भवन्ति, नियमनकामवधिर्भवतीत्यर्थः, तेन चावधिना पश्यन्ति सर्वत एव, न पुनर्देशतोऽपि, अत्राहपश्यन्ति सर्वेत एवेत्येतावदेवास्तु, अवधेरवाया भवन्तीत्येतच्चनर्थकं, नियतावधित्वस्यार्थसिद्धत्वात् , तथा चोक्तम्-'द्वयोर्भवप्रत्ययः, तद्यथा-देवानां च नारकाणां चे' त्यतोऽर्थगम्यमेवैषां नियतावधित्वं, तीर्थकृतामपि प्रसिद्धृतरपारभविकावधिसमन्वागमादेव नियतावधित्वसिद्धिरिति, अत्रोच्यते, नियतावधित्वे सिद्धेऽपि न सर्वकालावस्थायित्वसिद्धिरित्यतस्तत्प्रदर्शनार्थ अवधेरवाया | भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीति ज्ञापनार्थत्वाददुष्ट, यद्येवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति, न, छबस्थ| कालस्यैव विवक्षितत्वात् , अल विस्तरेण, शेष पूर्ववदिति गाथार्थः। 'सेतं ओहिणाणति, तदेतदवधिज्ञानम् ।। | ‘से किं तं मणपज्जवणाण' मित्यादि ॥१७--९९ ॥ अथ किं तन्मनःपर्यायज्ञान', इदं प्रात्रिरूपितशब्दार्थ| मेव, साम्प्रतमुत्पत्तिस्वामिमागुणाद्वारेण चिन्त्यते, तथा चाह-'मणपज्जवणाणं भंते' इत्यादि, मनःपर्यायज्ञानं णमिति वा| क्यालङ्कारे, भदन्त इति गुर्वामन्त्रण, किमिति परिप्रश्ने, मनुष्याणामुत्पद्यत इति प्रकटार्थम् , अमनुष्याणामुत्पद्यत इत्यमनुष्या देवादयः, अत्रेद निर्वचनं-गौतम माणुस्साणमित्यादि । आह-किमिदं अकाण्ड एव गौतमामन्त्रणं, ननु देववाचकरचितो|ऽयं ग्रन्थ इति, उच्यते, सत्य, किन्त्वेते पूर्वसूत्रालापका एवार्थवशाद्विरचिताः, 'जावइया तिसमयाहारगस्से' त्यादिनियुक्तिगाथासूत्रवदिस्यतो न दोषः, तत्र च गीतमप्रश्नभगवनिर्वचनरूप एव ग्रन्थ इति, पुनरप्याह-ननु गौतमोऽपि सूत्रतः प्रवचन ४२॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy