________________
नन्दीहारिभद्रीय
वृत्ती ॥३८॥
समुद्रविषयोऽवधिरुत्पद्यत इति, कदाचिन्महान्तः संख्येयाः, कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधिविज्ञेयः, स्वयम्भूरमणविषय- द्रव्यादिमनुष्यवाह्यावधेर्वा, योजनापेक्षया च सर्वपक्षेष्वसंख्येयमेव क्षेत्रमिति गाथार्थः ॥ एवं तावत् परिस्थूरन्यायमंगीकृत्य क्षेत्रवृद्धया & वृद्धिनियमः कालवृद्धिरनियता कालवृद्धया च क्षेत्रवृद्धिः प्रतिपादिता, साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यस्य वृद्धौ यस्य वृद्धिर्भवति यस्य वा न भवत्यमुमर्थमभिधित्सुराह__ कालेगाहा ॥*५४-९०)। कालेऽवधिज्ञानगोचरे वर्द्धमाने चतुर्णा द्रव्यादीनां वृद्धिर्भवति, कालस्तु भाज्यो विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्यां कदाचिद्व ते कदाचिन्नेति, कुतः?, क्षेत्रस्य सूक्ष्मत्वात् , कालस्य च स्थूलत्वाद्, द्रव्यपयोयौ तु वर्द्धते, सप्तम्यन्तता चास्य-'ए होइ अयारत पयम्मि बीयाए बहुसु पुंल्लिगे । तइयाइसु छट्ठीसत्तमीण एकम्मि महि| लत्थे॥१॥' अस्माल्लक्षणात् सिद्धति, एवमन्यत्रापि प्राकृतशैल्या इष्टविभक्त्यन्तता पदानामवगन्तव्येति, तथा वृद्धौ च-द्रव्यं च पर्यायश्च | द्रव्यपर्यायौ तयोवृद्धौ सत्यां भाज्या- विकल्पनीयो क्षेत्रकालावेव, तुशब्दस्यैवकारार्थत्वात् , कदाचिदनयोवृद्धिर्भवति कदाचिन्नेति, द्रव्यपर्याययोः सकाशात् परिस्थरत्वात क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धौ तु पर्याया वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्य, द्रव्यात् पर्यायाणां सूक्ष्मत्वाद् एकस्मिन् भावे (अ)क्रमवर्तिनामपि च वृद्धिसम्भवात् कालवृष्ध्यभावो भावनीय इति गाथार्थः । अत्र कश्चिदाह- जघन्यमध्यमोत्कृष्टभेदभिनयोरवधिज्ञानसम्बन्धिनो क्षेत्रकालयोरंगुलावलिकाऽसंख्येयभागोपलक्षितयोः परस्परत: प्रदेशसमयसंख्यया परिस्थूरसूक्ष्मत्वे सति कियता भागेन हीनाधिकत्वमिति, अत्रोच्यते, सर्वत्र प्रतियोगिनः खल्वावलिकाऽसंख्येयभागादेः कालादसंख्येयगुणं क्षेत्रं, कुत एतदत आह