________________
क्षेत्रकालवृद्धिः
वृत्तौ
।
नन्दी
व्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायाँश्च विवक्षितकालान्तर्वर्तिनः पश्यति, न तु क्षेत्रकालौ, मूर्त्तद्रव्यालम्बनत्वात्, एवं हारिभद्रीय मतभा
| सर्वत्र भावना द्रष्टव्या, क्रिया च गाथाचतुष्टयेऽप्यध्याहार्या, तथा द्वयोः अङ्गुलावलिकयोः सङ्खथेयौ भागौ पश्यति, अङ्गुलसं
| ख्येयभागमानं क्षेत्रं पश्यन्नावलिकायाः सङ्खयेयभागमेव पश्यतीत्यर्थः, तथा अंगुलं पश्यन् क्षेत्रत आवलिकान्तः पश्यति, भिन्ना॥ ३७॥
| मावलिकामित्यर्थः, तथा कालत आवलिकां पश्यन् क्षेत्रतः अङ्गुलपृथक्त्वं पश्यति, पृथक्त्वं हि द्विप्रभृतिरानवभ्यः, इति प्रथम
गाथार्थः ॥ द्वितीयगाथाव्याख्या-हस्त इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहूर्तान्तः पश्यति, भिन्नमुहर्तमित्यर्थः, अवध्य| वधिमतोरभेदोपचारादवधिः पश्यतीत्युच्यते, तथा कालतो दिवसान्तो भिन्नदिवसं पश्यन् क्षेत्रतो गव्यूत इति गव्यूतविषयो | बोद्धव्यः, तथा योजनविषयः क्षेत्रतोऽवधिः कालतो दिवसपृथक्त्वं पश्यति, तथा पक्षान्तः-भिन्न पक्षं पश्यन् कालतः पञ्चविंशति ४ योजनानि पश्यतीति द्वितीयगाथार्थः ॥ तृतीयगाथाव्याख्या-भरत इति क्षेत्रतो भरतविषयेऽवधौ कालतः अर्द्धमास उक्तः, एवं 8 है जम्बूद्वीपविषये चावधौ साधिको मासः, वर्ष च मनुष्यलोकविषयेऽवधाविति मनुष्यलोकः खल्बद्धतृतीयद्वीपसमुद्रपरिमाणः,
वर्षपृथक्त्वं च रुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीयगाथार्थः ॥ चतुर्थगाथाव्याख्या-सङ्ख्यायत इति सङ्ख्येयः, ६ स च संवत्सरलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?, सङ्ख्येयो वर्षसहस्रात् परतोऽपि गृह्यते इति, तस्मिन् ६ |संख्येये कलनं कालः तस्मिन् काले अवधेर्गोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया द्वीपाश्च समुद्राश्च द्वीपसमुद्रा अपि भवन्ति
संख्येयाः, अपिशब्दात् महानेकोऽपि तदेकदेशोऽपीति, तथा कालेऽसंख्येये पल्योपमादिलक्षणेऽवधेर्विषये सति तस्यैवासंख्येयकालला परिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीपसमुद्रास्तु भाज्या:-कदाचिदसंख्येया एव, यदा इह कस्यचिन्मनुष्यस्यासंख्ययद्वीप
SANSAROGREGARCANCE
AGACASSAS