SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ नन्दीहारिभद्रीय वृत्तौ ॥ ३० ॥ न्ववधिज्ञानं क्षायोपशमिके भावे वर्तते देवनारकभवश्चदयिकस्तत् कथं तद् भवप्रत्ययमिति, उच्यते, क्षायोपशमिकमेव तत्, किंतु स एव देवनारकभवे अवश्यंभावि, पक्षिणां गगनगमनलब्धिनिमित्तवदित्येता भवप्रत्यय इति उक्तं च "उदयक्खयखयोवसमोवसमा जं च कम्मुणो भणिया । दव्वं खत्तं कालं भावं च भावं च संपप्य ।। ९ ।। ( पंचसं ०७६ ) तथा द्वयोः क्षायोपशमिकं, तद्यथा - मनुष्याणां पंचेन्द्रियतिर्यग्योनीनां च न चैषामवश्यंतया भवतीत्यतः सत्यपि क्षायोपशमिकत्वे भवप्रत्ययाद् भिन्नमिदमिति, तस्वतस्तु सर्वमेव | क्षायोपशमिकमिति ॥ अधुना क्षयोपशमस्वरूपं प्रतिपादयन्नाहू - 'को हेऊ' इत्यादि, को हेतुः किंनिमित्तं किंविषयं क्षायोपशमिकं यद्वा किं कारणं क्षायोपशमिकमुच्यते इत्यध्याहारः, अत्र निर्वचनमभिधातुकाम आह- क्षायोपशमिकं तदावरर्णायानाम्-अवधिज्ञानावरणीयानां कर्मणां उदीर्णानां उदयावलिकाप्राप्तानां क्षयेण प्रलयेन अनुदीर्णानां चात्मनि व्यवस्थितानामुपशमेन उदय निरोधेन अवधिज्ञानमुत्पद्यत इति सम्बन्धः, यत एवमतः कर्मोदयानुदयविषयं, अथवा येन तदावरणीयानां कर्मणां उदीर्णानां क्षयेणानुदीर्णानामुपशमेनावधिज्ञानमुत्पद्यते तेन क्षायोपशमिकमित्युच्यत इति, स च क्षयोपशमो विशिष्टगुणप्रतिपत्तिमन्तरेण तथा गुणप्रतिपतितश्च भतीत, तत्रान्तरेण यथाऽऽकाशे घनघनपटलाच्छादितमूर्चेर्दिवसकरमण्डलस्य कथंचिदुपजातरन्ध्रेण विनिर्गतास्तिमिरनिचयप्रलयहेतवः किरणाः स्वावपातदेशास्पदं द्रव्यंमुद्योतयन्ति तथा प्रकृतिभास्वरस्यात्मनो मिथ्यात्वादिजनितज्ञानावरणीयादिकर्ममलपटलतिमितिरस्कृतस्वभावस्यानादौ संसारे परिभ्रमतो यथाप्रवृत्त्यापजातावधिज्ञानावरणक्षयोपशमविवरस्यावधिज्ञानालोकः प्रसाधयति स्वकार्यमिति, गुणप्रतिपत्तितस्तु मूलगुणादिप्रतिपत्तेर्भवति, यत आह ' अथवा ' इत्यादि ॥ (९-८१) ॥ अथवेति प्रकारान्तरप्रदर्शनार्थ, अन्तरेण प्रतिपत्तिमित्यस्मादिदं प्रकारान्तरमेव, गुणाः अवधेरधिकारः ॥ ३० ॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy