SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ नन्दी FASHASAA अवधेभैदाः मूलगुणादयस्तैः प्रतिपन्नो-गृहीतो गुणप्रतिपन्न इत्यनेन अतिशयपात्रतामाह, यतः पात्राथयिणो गुणाः, उक्तञ्च-नोद-10 हारिभद्रीय वृत्ती न्वानर्थितामेति, न चाम्भोभिर्न पूर्यते । आत्मा तु पात्रता नेयः, पात्रमायान्त सम्पदः॥१॥" अथवा प्राकृतशैल्या पूर्वापरनि-1 | पातकरणात् प्रतिपन्नगुणस्य अनगारस्य न गच्छन्तीत्यगाः-वृक्षास्तैः कृतमगारं-गृहं नास्यागारं विद्यते इत्यनगारः परित्यक्तद्र॥ ३१॥ व्यभावगृह इत्यर्थः, तस्य प्रशस्ताध्यवसायस्य तदावरणकर्मक्षयोपशमे सत्यवधिज्ञानं समुत्पद्यते, तं समासतो इत्यादि, तद् अ वधिज्ञानं समासतः संक्षपेण षड्विधं षट्झकारं प्रज्ञप्तं प्ररूपितं, तद्यथा-अनुगामिकं अनुगमनशीलं, अनुगामिकं अवधि| ज्ञानं लोचनवद्गच्छन्तमनुगच्छतीतिभावार्थः, अननुगामिकं नावधिज्ञानिनं गच्छन्तमनुगच्छति संकलाप्रतिबद्धप्रदीपवत् इति ह. दयं, वर्धते वर्द्धमानं तदेव बर्द्धमानकं, संज्ञायां कन्, उत्पत्तिकालादारभ्य-प्रवर्द्धमानं, महेन्धननिवन्धनोत्पद्यमानानलज्वालाक| लापवदिति भावना, हीयमानकं हीयते हीयमानं तदेव हीयमानकं, कुत्सायां कन् , उदयसमयसमनन्तरमेव हीयमानं दग्धेन्ध&ानप्रायधूमध्वजाचिळतवदित्यर्थः, प्रतिपाति प्रतिपतनशीलं प्रतिपाति कथंचिदापादिताजात्यमाणप्रभाजालवदिति गर्भार्थः, अप्रति|पाति न प्रतिपाति अप्रतिपाति क्षारमृत्पुटपाकाद्यापाद्यमानजात्यमणिकिरणनिकरवदित्यभिप्रायः, आह-आनुगामुकानानुगामुकभेदद्वय एव शेषभेदानां वर्द्धमानकादीनामन्तर्भावात् किमर्थमुपन्यास इति, उच्यते, सत्यप्यन्तर्भावे तद्विकल्पद्वयादेव तेषामपरिच्छिचेः, तथाहि नानुगामुकमनानुगामुकं चेत्युक्ते वर्द्धमानकादयो गम्यन्त इति, अज्ञातज्ञापनार्थ च शास्त्रप्रवृत्तिरित्यलं प्रसंगेन । . 'से किं तमाणुगामिक'मित्यादि ।। (१०-८२)॥ अथ किं तदानुगामुकं अवधिज्ञानं, २ द्विविधं प्रज्ञप्तं, तद्यथा-अन्तगतं च मध्यगतं च, इहान्तः पर्यन्तो भण्यते, नान्तवत् , गतं स्थितमित्यनर्थान्तरं, अन्ते गतमन्तगतं अन्ते स्थितं, तच्च फड्डु ॥३१॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy