________________
नन्दीहारिभद्रीय
अवधेरधिकार:
॥२९॥
CHAUTARILASAGAR
यत्पुनः साक्षादिन्द्रियमनोनिमित्तं तत्तेषामेव तत्प्रत्यक्षम् , अलिंगत्वाद्, आत्मनोऽवध्यादिवत्, न त्वात्मनः, आत्मनस्तु तत् परोक्षमेव, परनिमित्तत्वाल्लैंगिकवत् , इन्द्रियाणामपि तदुपचारतः प्रत्यक्षं, न परमार्थतः, कथम्?, अचेतनत्वादित्यत्र बहु वक्तव्यं | तच्चान्यत्र वक्ष्यामो, मा भूत् प्रथमग्रन्थ एव प्रतिपत्तिगौरवमित्यलं विस्तरेण, आह--'स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणी' ति |क्रमः, अयमेव च ज्यायान् , पूर्वपूर्वलाभ एवोत्तरोत्तरलाभाद्, अतः किमर्थमुत्क्रमः ?, उच्यते, पश्चानुपूर्व्यादिन्यायज्ञापनार्थ, |
स्पष्टसंवेदनद्वारेण सुखप्रतिपयर्थ चेति, इहं मनोज्ञानयपीन्द्रियज्ञानतुल्ययोगक्षेममेव द्रष्टव्यं, तथा चाभिनिबोधिकज्ञानप्ररूपणायां | प्रत्यक्षत इति सेतं इदियपच्चक्खं तदेतदिन्द्रियप्रत्यक्षम् ॥ ।
से किं तं णोइंदियपञ्चक्वं०(५-७६ ) अथ किं तनोइन्द्रियप्रत्यक्षं? नोइन्द्रियप्रत्यक्षं त्रिविधं प्रज्ञप्तं, तद्यथा-अवधिज्ञान|प्रत्यक्षं इत्यादि ।
से किं तं'इत्यादि ( ६-७६ ) अथ किं तदवधिज्ञानप्रत्यक्षं १, २ द्विविधं प्रज्ञतं, तद्यथा-भवप्रत्ययं च क्षायोपशमिकं च, तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः-नरकादिजन्मेति भावः, भव एव प्रत्ययः-कारणं यस्य तद्भवप्रत्ययं, च पूर्ववत्, | तथा क्षयचोपशमश्च क्षयोपशमौ ताम्यां निवृत्तं क्षायोपशामकं ॥ तत्र यद्येषां भवति तत्तेषामुपदर्शनाह
'दोण्ह'मित्यादि (७-७६ ) द्वयोर्जीवसमूहयोः भवप्रत्ययं, तद्यथा-देवानां नारकाणां च, तत्र दीव्यन्तीति देवाः, निरुपमक्रीडामनुभवन्तीत्यर्थः, तेषां, तथा नरान् कायन्तीति नरकाः, योग्यतया शब्दयन्तीत्यर्थः, तेऽभवा नारकास्तेषां ।। अत्राह-न
ॐॐॐॐ
॥२९॥