SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ इन्द्रिय . वृत्ती नन्दी- 18 'अथ प्रक्रियाप्रश्नानन्तर्यमंगलोपन्यासप्रतिवचनसमुच्चयेषु' इहोपन्यासार्थः, किमिति परिप्रश्ने, तत् प्रागुपदिष्टं प्रत्यक्षमिति हारिभद्रीय है | सूत्रार्थः ॥ एवं चोदकेन प्रश्ने कृते सति न्यायप्रदर्शनार्थमाचार्यः चोदकोक्तानुवादद्वारेण निर्वचनमभिधातुकाम आह ___'पच्चक्खं दुविहं पन्नत्त'मित्यादि, एवमन्यत्रापि यथायोगं प्रश्ननिर्वचनसूत्राणां पातनिका कार्येति, प्रत्यक्षं द्विविधं ॥२८॥ प्रज्ञप्तं, तद्यथा-इन्द्रियप्रत्यक्ष नोइन्द्रियप्रत्यक्षं च, इन्द्रियाणां प्रत्यक्षं इन्द्रियप्रत्यक्षं, इहेन्द्रः स्वरूपतो ज्ञानाद्यैश्वर्ययुक्तत्वादात्मा तस्येदमिन्द्रियं, तच्च द्विधा-द्रव्येन्द्रियं च भावेन्द्रियं च,तत्र पुद्गलैर्बाह्यसंस्थाननिवृत्तिः कदम्बपुष्पाद्याकृतिविशिष्टोपकरणं च द्रव्येन्द्रियं, 'निवृत्त्युपकरणे द्रव्येन्द्रिय' मिति(तत्त्वा.२-१७) वचनात् , श्रोत्रेन्द्रियादिविषया सर्वात्मप्रदेशानां तदावरणक्षयोपशमलब्धिरुपयोगश्च |भावेन्द्रियं, लब्ध्युपयोगी भावेन्द्रिय' मिति(तत्त्वा.२-१८) वचनात्, इन्द्रियप्रत्यक्षं न भवतीति नोइन्द्रियप्रत्यक्षं, नोशब्दः सर्वप्रतिषेधे ॥ से किं तमित्यादि (४-७६.) अथ किं तदिन्द्रियप्रत्यक्षं, तत् इन्द्रियप्रत्यक्ष पञ्चविध प्रज्ञप्तं, तद्यथा-श्रोत्रेन्द्रियप्रत्यक्षमित्यादि, श्रोत्रेन्द्रियस्य श्रोत्रेन्द्रियप्रधान वा प्रत्यक्षं २, श्रोत्रेन्द्रियनिमित्तमित्यर्थः, एवं शेषेष्वपि वक्तव्यम् , एतच्चोपचारतः प्रत्यक्षं, न परमार्थतः, कथं ज्ञायत इति चेत् सूत्रप्रामाण्यात्, वक्ष्यति च--"परोक्खं दुविहं पनत्तं, तंजहा-आभिणिबोहियणाणपरोक्खं च सुयणाणपरोक्खं च" न च मतिश्रुताभ्यामिन्द्रियमनोनिमित्तमन्यदस्ति यत् प्रत्यक्षमञ्जसा भवेत् , भावे च षष्ठज्ञानप्रसंगाद् विरोध इति, तस्मात् परोक्षमेवेदं तत्त्वत इति, आह-इह लोके लिंगजं परोक्षमिति प्रतीतमिति, उच्यते, इह यदिन्द्रियमनो| भिर्बाह्यलिंगप्रत्ययमुत्पद्यते तदेकान्तेनैवेन्द्रियाणामात्मनश्च परोक्षं, परनिमित्तत्वाद्धमादग्निज्ञानवदित्यतः परोक्षमिति प्रतीतिः, ARRRRRRRRRRC २८॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy