________________
पर्यायज्ञानमपि इति भावसाधर्म्य, तथा यथा अवधिज्ञानं प्रत्यक्षमेवं मनःपर्यायज्ञानमपीत्यध्यक्षसाधर्म्यं । तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानस्योपन्यासः, तस्य सकलज्ञानोत्तमत्वात्, तथा अप्रमत्तयतिस्वामिसाधर्म्यात्, तथाहि यथा मनःपर्यायज्ञानमप्रमत्तयतेरेव भवति एवं केवलज्ञानमपि अप्रमत्तभावयतेरेवेति साधर्म्य, तथाऽवसानलाभाच्च, यो हि सर्वज्ञानानि समासादयति स खल्वन्त ॥ २७ ॥ * एवेदमानोतीति भावना, विपर्ययाभावसाधर्म्याच्च, तथाहि यथा मनःपर्यायज्ञानं विपरीतं न भवत्येवं केवलमपि इति साधर्म्य,
अलं विस्तरेणेति सूत्रार्थः,
नन्दीहारिभद्रीय वृत्तौ
'तं समासतो दुविहं पन्नत्त' मित्यादि (२-७१) तत् पंचप्रकारं ज्ञानं समासतः संक्षेपेण द्विविधमिति द्वे विधे अस्येति | द्विविधं द्विप्रकारं प्रज्ञप्तं प्ररूपितं तद्यथेत्युदाहरणोपन्यासार्थम्, प्रत्यक्षं च परोक्षं च तत्र प्रत्यक्षमित्यत्र जीवोऽक्षः, कथं?, 'अशूव्याप्ता' वित्यस्य ज्ञानात्मनाऽश्नुतेऽर्थानित्यक्षः, व्यामोतीत्यर्थः, 'अश भोजन' इत्यस्य वाऽश्नाति सर्वाऽथानित्यक्षः, पालयति भुंक्ते चेत्यर्थः, तमक्षं प्रति वर्तत इति प्रत्यक्षं, आत्मनः अपरनिमित्तमवध्याद्यतीन्द्रियमिति भावार्थः, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, विचित्रतां चास्योत्तरत्र वक्ष्यामः, परोक्षं चेत्यत्राक्षस्य- आत्मनः द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात् पराणि वर्तन्ते, पृथगित्यर्थः, तेभ्योऽक्षस्य यत् ज्ञानमुत्पद्यते तत् परोक्षं, परनिमित्तत्वाद्धूमादग्निज्ञानवद्, अथवा परैरुक्षा-संबंधनं विषयविषयी भावलक्षणमस्येति परोक्षं, चशब्दः पूर्ववद् एवमन्यत्राप्युत्प्रेक्ष्य चशब्दार्थो वक्तव्य इति सूत्रार्थः ॥ एवं भेदद्वये उपन्यस्ते सत्यनयोः सम्यक् - स्वरूपमनवगच्छन्नाह चोदकः
'से किं तं पच्चक्खं १०१ (३-७५ ) सेशब्दो मागधदेशीप्रसिद्धो निपातोऽथशब्दार्थे वर्तते, स च प्रक्रियादिवाचकः, यथोक्तं
प्रत्यक्ष
परोक्षे
॥ २७ ॥