SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ज्ञानभेदानामुद्देश: नन्दी- हारिभद्रीय वृत्ती ॥२६॥ ॐ454545333843 ज्ञानयोरुपन्यास इति, तथाहि-य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, 'जत्थ मतिणाणं तत्थ सुयणाणं' ति वचनात् , तथा | यावान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतानानागतवर्तमानः सर्व एव, अप्रतिपतितैकजीवापेक्षया च षट्पष्टिसागरोपमाण्यधिकानीति, उक्तं च भाष्यकारेण-"दो वारे विजयाइK गयस्स तिमऽच्चुते अहव ताई । अइरेग नरभवियं णाणाजीवाण सव्वद्धं ॥१॥" यथा मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमादेशतः | सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि, यथा मतिज्ञानं परोक्षं एवं श्रुतज्ञानमपीति, तथा मतिज्ञानश्रुतज्ञानयोरेव अवध्यादिज्ञानभावादिति । आह-एवमपि मतिज्ञानमादौ किमर्थमिति, उच्यते, मतिपूर्वकत्वाद्विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादौ मतिज्ञानमिति, उक्तं च-“मतिपुव्वं जेण सुयं तेणादीए मती विसिट्ठो वा । मतिभेओ चेव सुयं तो मतिसमणंतरं भणियं ॥१॥" इति, पर्याप्तं विस्तरेण । तथा कालविपर्ययस्वामिलामसाधान्मतिश्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यासः, तथाहि-यावानेव मतिज्ञानश्रुतज्ञानयोः स्थितिकाल: प्रवाहापेक्षयाऽअतिपतितैकसत्त्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि अतः स्थितिसाधर्म्य, तथा यथैव मतिज्ञानश्रुतज्ञाने विपर्ययज्ञाने भवत एवमिदं मिथ्यादृष्टेविभंगज्ञानं भवतीति विपर्ययसाधर्म्य, तथा य एवं | मतिज्ञानश्रुतज्ञानयोः स्वामी स एवावधिज्ञानस्यापि (इति) भवति स्वामिसाधर्म्य, तथा विभंगज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भवाल्लाभसाधर्म्य । तथा छबस्थविषयभावाध्यक्षसाधादवधिज्ञानानन्तरं मनःपर्यायज्ञानस्योपन्यासः, तथाहि-यथाऽवधिज्ञानं छअस्थस्य भवत्येवं मनःपर्यायज्ञानमपि छद्मस्थस्यैवेति छद्मस्थसाधर्म्य, तथा यथाऽव|धिज्ञान रूपिद्रव्यविषयमेवं मनःपर्यायज्ञानमपि सामान्येनेति विषयसाधर्म्य, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे तथा मन:
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy