________________
नन्दी
ज्ञानभेदानामुद्देश:
***********
क्षयोपशम एव, अभिनिबुद्धयतेऽस्मिन्निति वा क्षयोपशमें सत्याभिनिबोधिकं, आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनिहारिभद्रीय ४
बुध्यत इति, आभिनिबोधिकं च तज्ज्ञानं चाभिनिबोधिकज्ञानं १ तथा श्रूयते इति श्रुतं-शब्द एव, भावश्रुतकारणत्वात्, कारणे वृत्ती
कार्योपचारादिति भावार्थः, श्रूयते वा अनेनेति श्रुतं-तदावरणक्षयोपशम इति हृदयं, श्रूयतेऽस्मादिति वा श्रुतं-तदावरणक्षयोपशम ॥ २५॥
एव, श्रूयतेऽस्मिन्निति वा क्षयोपशमे सति श्रुतं, आत्मैव श्रुतोपयोगपरिणामानन्यत्वाच्छ्रणोतीति, श्रुतं च तत् ज्ञानं च श्रुतज्ञानर तथाऽवधीयतेऽनेनेत्यवधिः, अवधीयत इत्यधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेति अवधिज्ञानावरणकर्मक्षयोपशम एव, तदुपयोग| हेतुत्वादित्यर्थः, अवधीयतेऽस्मादित्यवधिस्तदावरणकर्मक्षयोपशम एव, अवधीयते तस्मिन्निति वेत्यवधिर्भावार्थः पूर्ववदेव, अवधानं Pवा अवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं ३,. तथा मनःपर्यायज्ञानमित्यत्र परिः सर्वतो भावे अयनं
अयः गमनं वेदनमिति पर्यायाः, परि अयः पर्ययः, पर्ययनं पर्यय इत्यर्थः, मनसि मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परि
च्छेद इत्यर्थः, स एव ज्ञानं मनःपर्यायज्ञानं, अथवा मनसः पर्याया मनःपर्याया धर्मा बाह्यवस्त्वालोचनादिप्रकारा इत्यनर्थाअन्तरं तेषु ज्ञानं मनःपर्यायज्ञानं तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्द्धतृतीयद्वीपसमुद्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्ब
नमेवेति भावार्थः ४, तथा केवलम्-असहायं मत्यादिज्ञाननिरपेक्षं, शुद्धं वा केवलमावरणमलकलंकांकरहितं, सकलं वा केवलं तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलं अनन्यसदृशामिति हृदयं, ज्ञेयानन्तत्वादनन्तं वा केवलं | यथावस्थिताशेषभूतभवद्भाविभावस्वभावाविर्भासीति भावना, केवलं च तज्ज्ञानं च केवलज्ञानं ५॥ आह-एषां ज्ञानानामित्थमुपन्यासे किं प्रयोजनामिति, उच्यते, इह स्वामिकालकारणविषयपरोक्षत्वसाधयात् तद्भावे च शेषज्ञानभावादादावेव मतिश्रुत
CASSROORNANCAREOGH
54R5-
15
॥२५॥