________________
| नामुद्देशः
वृत्ती
नन्दी- त्यर्थः, ज्ञायते वाऽनेनेति (अस्मादिति वा) ज्ञानं तदावरणक्षयोपशमादेव, ज्ञायतेऽस्मिन्निति क्षयोपशमे सति, ज्ञानमात्मैव विशिष्ट- ज्ञानभेदाहारिभद्रीय क्षयोपशमयुक्तो जानातीति वा ज्ञानं तदेव स्वविषयसंवेदनरूपत्वात् तस्य, पंचविधमित्यत्र पञ्चेति संख्यावाचकः विधान विधेत्यत्र
'डुधाञ् धारणपोषणयो' रित्यस्यानुबन्धलोपे कृते विपूर्वस्य स्त्रियां वर्तमानायां 'पिद्भिदादिभ्यो डि' ति ( ३-३-१०४) ॥२४॥
वर्तमाने 'आतश्चोपसर्गे' (३-१-१३६ ) इत्यनेन अप्रत्ययः अनुबंधलोपे कृते आतो लोप इति च किङ्ती ( ६-४-६४ ) त्यनेन चाकारलोपे कृते परगमने च 'अजाद्यतष्टाविति (४-१-४) टाप्प्रत्ययोऽनुबन्धलोपः परगमनं विधा, पंच विधा अस्येति समासो | 'हस्वो नपुंसके प्रातिपदिकस्येति ( १-२-४७ ) वर्तमाने 'गोस्त्रियोरुपसर्जनस्ये(१-२-४८)त्यनेन हस्वत्वं, सुअम्भावः पंचविधं|पंचप्रकारमित्येतदेवमनवद्यं, कुव्याख्याव्यपोहार्थ चैतदेवं निदर्शितमित्यलं प्रसंगेन, प्रज्ञप्तं-प्ररूपितं, कैः?-अर्थतस्तीर्थकरैःसू त्रतो |गणधरैरिति, उक्तं च-"अत्थं भासइ अरहा सुत्तं गंथंति गणहरा णिउणं । सासणस्स हियट्ठाए तओ सुत्तं पवत्तइ ॥ १॥" इत्यनेन स्वमनीषिकाव्यपोहमाह, अथवा प्राज्ञादाप्तं प्राज्ञाप्तं, तीर्थकरादाप्तमिति प्राप्तं गौतमादिभिः, अथवा प्राज्ञैराप्तं प्राज्ञाप्तं गौतमादिभिः, प्रज्ञया वाऽऽप्तं प्रज्ञाद्वाऽऽप्तं प्रज्ञाप्त, सर्वैरेव संसारिभिरिति, तथाहि-न प्रज्ञाविकलैरिदमवाप्यते इति भावनीयं,
तद्यथेत्युदाहरणोपन्यासार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं चेति, तत्राभिमुखो नियतो ४) बोधोऽभिनिबोधः स एव स्वार्थिकप्रत्ययोपादानादाभिनिवोधिक, अभिनिबोधे वा भवं तेन वा निवृत्तं तन्मयं तत्प्रयोजनं वेत्याभि-13॥ २४ ॥ निबोधिक, अभिनिबुध्यते वा तदित्याभिनिबोधिकः-अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वादभेदोपचारादित्यर्थः, अभिनिबोध्यतेऽनेनेत्याभिनिबोधिकं-तदावरणक्षयोपशम इति भावार्थः, अभिनिबुध्यतेऽस्मादिति वा आभिनिबोधिकं-तदावरणकर्म