________________
नन्दीहारिभूद्रीय वृत्ती
॥ २१ ॥
योग्यायोग्यविभागोपदर्शनं न्याय्यं मा भूदयोग्यप्रदाने तत्सम्यग्नियोगाक्षमार्थिजनानर्थ इति, न खलु तत्त्वतोऽनुचितप्रदानेनायासहेतुनाऽविवेकिनमर्थिजनमनुयोजयन्तोऽप्यनवगतपरार्थसम्पादनोपाया भवन्ति दयालव इत्यवधूय मिथ्याभिमानमालोच्यतामेतदिति । आह-क इवायोग्यप्रदाने दोष इति उच्यते, स ह्यचिन्त्यचिन्तामणिकल्पमनकभवशतसहस्रोपात्तानिष्टदुष्टाष्टकर्मराशिजनितदौर्गत्यविच्छेदकमपीदमयोग्यत्वादवाप्य न विधिवदासेवते, लाघवं चास्य समापादयति, ततो विधिसमासेवकः कल्याणमिव महदकल्याणमासादयति, उक्तं च- 'आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेई ||१||' इत्यादि, अतोऽयोग्यदाने दातृकृतमेव वस्तुतस्तस्य तदकल्याणमिति, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्राधिकृतगाथां प्रपञ्चतः आवश्य कानुयोगे व्याख्यास्यामः, इह पुनः स्थानाशून्यार्थ भाष्यगाथाभिर्व्याख्यायत इति ॥
उल्लेऊण न सको गज्जइ इय मुग्गसेलओ रभे । तं संवट्टगमेहो सोउं तस्सोवरिं पडइ ॥ १ ॥ रविओत्ति ठिओ मेहो उल्लो मि णवत्ति गज्जइ य सेलो । सेलसमं गाहेस्सं निव्विज्जइ गाहगो एवं ॥ २ ॥ आयरिए सुत्तंमि य परिवाओ सुत्तअत्थपालमंथो । अनेसिपि य हाणी पुट्ठावि न दुद्धया वंशा || ३ || वुट्ठेऽवि दोणमेहे ण कण्हभोमाउ लोट्टए उदगं । गहणधरणासमत्थे इय देयमछित्तिकारिम्मि ॥ ४ ॥ भाविय इयरे य कुडा अपसत्थ पसत्थ भाविया दुविहा । पुप्फाईहि पसत्था सुरतेल्लाई हिं अपसत्था ||५| वम्मा य अवम्मावि य पसत्थवम्मा य होंति अग्गेज्झा । अपसत्थअवम्मावि य तप्पडिवक्खा भवे गेज्झा || ६ || कुप्पवयणओसनेह भाविया एवमेव भावकुडा । संविग्गेहिं पसत्था वम्माऽवम्मा य तह चैव ॥ ७ ॥ जे पुण अभाविया खलु ते चतुधा अथविमो गमो अन्नो । छिद्द कुड भिन्न खंडे सगले य परूवणा तेसिं ॥ ८ ॥ सेले य छिड चालिणि मिहो कहा सोउमुट्ठियाणं तु । छिड्डाऽऽह
योग्यायोग्याः
॥ २१ ॥