________________
नन्दीहारिभद्रीय वृत्तौ
॥ २० ॥
गणिनमिति क्रिया, किम्भूतं ?- अर्थमहार्थखानिं खानिरिव खानिः अर्थमहार्थानां खानिः २ तं तत्र भाषाऽभिधेयाः अर्थाः विभाषावार्तिकगोचरा महार्था इति, सुश्रमणव्याख्यानकथने निवृत्तिर्यस्य स तथाविधस्तं, तत्र व्याख्यानं प्रतीतं कथनं संशये सति विनेयप्रश्नोत्तरकालभावि व्याकरणं, अथवा व्याख्यानम् - अनुयोगः कथनमोघतो धर्मस्य, धर्मकथेत्यर्थः, प्रकृत्या स्वभावेन मधुरवाचं मधुरगिरमिति गाथार्थः ॥
सुकुमालकोमल० गाहा ||(*४२-५४)।। निगदसिद्धा, एवं आवलिकाक्रमेण महापुरुषाणां स्तवमभिधाय साम्प्रतं सामान्येनैव श्रुतधरनमस्कारं प्रतिपिपादयिषुराह
जे अन्ने भगवंते० ॥(*४३-५४ )|| ये चान्येऽतीता भाविनश्च भगवन्तः श्रुतरत्नोपपेतत्वात् समत्रैश्वर्यादिमन्त इत्यर्थः, कालिकश्रुतानुयोगिनो धीराः सत्त्ववन्तस्तान् प्रणम्य शिरसा उत्तमाङ्गेन ज्ञानस्य- आभिनिबोधिकादेः प्ररूपणं वक्ष्ये, क एवमाह - दूष्यगणिशिष्यो देववाचक इति गाथार्थः । इदं च पञ्चप्रकारं ज्ञानम्, एतत्प्रतिपादकं चाध्ययनं योग्येभ्य एव विनेयेभ्यो दीयते, नायोग्येभ्य इत्यतो योग्यायोग्यविभागोपदर्शनार्थमेव तावदिदमाह -
सेलघण० गाहा ।।(*४४-५४)।। आह- शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थितानां सर्वसत्त्वहितायोद्यतानां महापुरुषाणां अलं योग्यायोग्यविभागनिरीक्षणेन, न हि परहितार्थमिह महादानोद्यता महीयांसोऽर्थिगुणमपेक्ष्य प्रदानक्रियायां प्रवर्त्तन्ते दयालब इति, अत्रोच्यते, ननु यत एव शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थिताः सर्वसच्चाहितायोद्यता महापुरुषाच गुरवः अत एव
अनुयोग
धर नमस्कारः
योग्यायो ग्यविचारः
॥ २० ॥