________________
नन्दी
स्थविराबलिका
हारिभद्रीय
॥१९॥
वरकणग० अङ्क० भूआहयय० ।। (* ३७ । ३८। ३९-५२) ॥ इदं गाथात्रयमपि प्रायो निगदसिद्धमेव, नवरं भव्यजनहृदयदायितान् भव्यजनहृदयवल्लभान् , तथा सुविज्ञातबहुविधस्वाध्यायप्रधानान् बहुविध आचारादिभेदात् स्वाध्यायः, अनुयोजिता यथोचिते वैयावृत्यादौ वरवृषभाः-सुसाधवो यैस्तान्, नागेन्द्रकुलवंशनन्दिकरानिति प्रमोदकरानित्यर्थः, भूतहितप्रगल्भान्, भृतदिनाचार्यान् इत्यत्रानुस्वारोऽलाक्षणिकः, भवभयव्यवच्छेदकरानिति सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् । _ 'सुमुणिय०॥गाहा (*४०)॥, अनेकधा सत्त्वहितनिपुणानिति भावः, वन्देऽहं भूतदिनाचार्यशिष्य, वन्देऽहं लोहिचमिति क्रिया, किम्भूतं -सुष्टु विज्ञातं नित्यानित्यं येन स तथाविधस्तं, किं ज्ञातं ?, विशेषणान्यथाऽनुपपत्तेः वस्तु इति गम्यते, यथा 'सवच्छा धेनु रित्युक्ते गोडवाया विशेषणायोगादिति, तच्च वस्तु सचेतनाचेतनं, तत्र सचेतनभात्मा चेतनत्वाद्यपेक्षया नित्यः नारकतिर्यनरामरपर्यायापेक्षया चानित्यः, एवमचेतनमप्यण्वादि विज्ञातव्यं, तथाहि-परमाणुरजीवत्वमूर्तत्वादिभिनित्यः, वर्णादिभिzणुकादिमिस्त्वनित्य इति, उक्तश्च-सर्वव्यक्तिषु नियतं क्षणे२ऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थाना ॥१॥ दित्यत्र बहु वक्तव्यं तच्च नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रप्रधानोऽयमारंभ इति, अनेन न्यायवेदित्वमाह, सुविज्ञातसूत्रार्थधारकमित्यनेन त्वोधत एव स्वभ्यस्तसूत्रार्थधारकामति सद्भावोद्भावना, तथ्यमित्यनेन सम्यक्प्ररूपकत्वमाहेति गाथार्थः ॥
अस्थमहत्थखाणी गाहा।।(*४१-५२)।लोहित्यशिष्यं प्रयतःसन् अनुत्सृष्टप्रयत्नपरः सन्नित्यर्थः, प्रणमामि दुष्य
**55555SHISHASHA
॥
१