________________
नन्दीहारिभद्रीय वृत्ती
स्थविरावालका
॥ १८॥
क्खकाले ; जे अन्ने पहाणा अणुओगधरा ते विणट्ठा, एगे खंदिलायरिए संधरे, तेण महुराए पुणो अणुओगो पवत्तिओति महुरा वायणा म भन्नइ, तस्संतिओ अणुओगो भण्णइत्ति गाथार्थः ।।
तातो. गाहा (* ३४-५१) ततः स्कन्दिलाचार्यशिष्यं हिमवन्तं वन्दे शिरसेति क्रिया, किम्भृत-हिमवन्महाविक्रम हिमवत इ इव महाविक्रमो-विहारव्याप्त्यादिलक्षणो यस्य स तथाविधस्तं 'धीपरकममणंत' न्ति अनन्तधृतिपराक्रम, प्राकृतशैल्या तु अन्योयोपन्यासः, अनन्तः धृतिप्रधानः पराक्रमः कर्मक्रियता वा (शत्रुजये) यस्य स तथाविधस्तं 'सज्झायमणतधरं' ति अनन्तस्व वाध्यायधरं, धरतीति धरः अनन्तगमपर्यायत्वादनन्तं-सूत्रं तद्विषयः स्वाध्यायस्तस्य धर इति समासः तमिति गाथार्थः ॥
कालिय० गाहा (* ३५-५२) मिउ० गाहा ( ३६-५२ ) कालिकश्रुतानुयोगस्य धारकान् , धारकांश्च पूर्वाणांउत्पादादहीनां, हिमवत्क्षमाश्रमणान् वन्दे, तथैतच्छिष्यानेव वन्दे नागार्जुनाचार्यानिति गाथार्थः ॥ किंभूतान् ?-मृदुमार्दवसम्पन्नवान् उपलक्षणत्वान्मृदुत्वस्य, कान् ?-क्षमामार्दवार्जवसन्तोषसम्पन्नानित्यर्थः, आनुपूर्व्या वयापर्यायकालगोचरया वाचकत्वं प्राप्तान, ऐदंयुगीनानामपि सामाचारीप्रदर्शनपरमेतत्, न चायुक्तं द्वितीयपदमाश्रित्यैदंयुगानानामपि युज्यते कालोचितानुपूर्वी विहाय क्वचिदप्याचार्यत्वाधारोपणं, महापुरुषाणां गौतमादीनामाशातनाप्रसंगात, कृतं प्रसंगेन, संसार एव दण्डो भगवदाज्ञावितथकारिणां इति, ओघश्रुतसमाचरकान् ओघश्रुतम्-उत्सर्गश्रुतं तत् समाचरन्ति ये ते तथाविधास्तान् नागार्जुन वाचकान् वन्दे इति गाथार्थः॥
9%