SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ तीर्थ नन्दी हरा हुंति वीरस्स ॥२॥' साम्प्रतं वर्तमानतीर्थाधिपतेः स्थविरावलिका प्रतिपादयन्नतिशयभक्त्या सामान्यतस्तच्छासनस्तवं हारिभद्रीय प्रतिपादयत्राह * करावलिका वृत्तो निव्वुइपह० रूपकं (*२२-४८)॥ निर्वृत्तिपथशासनकमित्यत्र यद्यपि सम्यग्दर्शनज्ञानचारित्राणि निर्वाणमार्गस्तथा-12 शासन॥१४॥ |प्यनेन दर्शनचरणपरिग्रहः, यत आह-जयति सदा सर्वभावदेशनकं, सर्वभावप्ररूपकमित्यर्थः, अनेन तु ज्ञानपरिग्रहः, अथवा निवृत्तिपथशासनकमित्यनेन सम्पूर्णनिर्वाणमार्गकथनमेवेति गृह्यते, जयति सदासर्वभावदेशनकमित्यनेन तु विधिप्रतिषेधद्वारे|ण न निवृत्तिमार्गव्यतिरेकेण किचिंदस्तीति ख्याप्यते, यत एवंभूतमत एव कुसमयमदनाशनकं कुसिद्धान्तावलेपनाशनकमि| त्यर्थः, जिनेन्द्रवरवीरशासनकं चरमतीर्थकरप्रवचनमिति हृदयं, अयं रूपकार्थः॥ अधुना यैरविच्छेदेन स्थविरैः क्रमेणैदंयुगी| नानामानीतं तदावलिका प्रतिपादयबाह-- सुधम्मं० गाहा ॥(*२३-४८)। इह स्थविरावलिका सुधर्मस्वामिनः प्रवृत्ता, उक्तं च-"तित्थं च सुधम्माओ णिरवच्चा गणहरा सेस" ति, अतस्तमेव पुरस्कृत्येयं प्रतिपाद्यते सुधर्म भगवद्गणधरं अग्निवैशायनमित्यग्निवैशायनसगोत्रं, तथा त|च्छिष्यं जम्बुनामानं च काश्यपं काश्यपगोत्रं, तस्मात् प्रभवं तच्छिष्यं प्रभवनामानं कात्यायनमिति कात्यायनसगोत्र, वंदे | #इति क्रिया प्रत्येकमभिसम्बध्यते, तथा तच्छिष्यं 'वच्छ' मिति वत्ससगोत्रं सय्यम्भवं तथेति गाथार्थः॥ जसभ६० गाथा ॥७२४-४९॥ शय्यंभवशिष्यं यशोभद्रं 'तुङ्गिक' मिति तुङ्गिकगणं व्याघ्रापत्यसगोत्रं वन्दे, अस्य च
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy