________________
नन्दीहारिभद्रीय
वृत्ती
॥१२॥
| तथाहि-अहिंसाव्यवस्थितः तपस्वीति, मुनिवरा एव शाक्यादिमृगपराजयान्मृगेन्द्राः मुनिवरमृगेन्द्राः, उत्प्राबल्येन दर्पिताः उद्दर्पिताः, सूर्यस्याकर्मशत्रुजयं प्रति उद्दर्पिताश्च मुनिवरमृगेन्द्राश्चेति विशेषणसमासः, जीवदयासुन्दरकन्दरेषु उद्दर्पितमुनिवरमृगेन्द्रास्तैः आकीर्णो-च्याप्तो
ल चलेन्द्रतया | यस्तस्येति, हेतुशत इत्यादि, प्रगलन्ति च तानि रत्नानि च प्रगलद्रत्नानि निस्यन्दवन्ति चन्द्रकान्तादीनि परिगृह्यन्ते, धातवः
स्तव: | कनकादिधातवो गृह्यन्ते, धातवश्च प्रगलद्रत्नानि च धातुप्रगलद्रत्नानि, दीप्ताश्च ता औषधयश्च दीप्तौषधयः, धातुप्रगलद्रत्नानि च दीप्तोषधयश्च, ताः गुहासु यस्य स तथोच्यते, इह च संघमंदरगिरौ हेतुशतान्येव धातवः, अन्वयव्यतिरेकलक्षणा हेतवो गृह्यन्ते, प्रगलद्रत्नानि तु क्षायोपशमिकभावनिष्यन्दवन्ति श्रुतरत्नानि गृह्यन्ते, दीप्तौषधयस्तु विशुद्धा आमषिध्यादयो गृह्यन्ते, गुहास्तु | समवायाः प्ररूपणगुहा वा गृह्यन्ते, इति गाथार्थः॥ .
संवर० गाहा ॥१५-४६)। संवरश्चासौ वरश्च संवरवरः, संवरः-प्रत्याख्यानरूपः सर्वप्राणातिपातादिविनिवृत्तिरूपत्वाद्वरः |असावेव कर्ममलक्षालनाज्जलमिव जलं संवरवरजलं तस्मात् प्रगलितं च तदुज्झरं च संवरवरजलप्रगलितोमरं, तथा च संवरवर-IKI | जलादुपचारतः प्रगलति श्रुतज्ञानाघुज्झरमिति, तदेव प्रविराजमानः हारो यस्य स तथाविधः, 'सावगजणे'त्यादि, रवन्तश्च ते मयूराश्च रवन्मयूराः प्रचुराश्च ते रवन्मयूराव २ श्रावका एव जनास्त एव प्रचुररवन्मयूरास्तैनृत्यन्तीव कुहराणि यस्येति समासः, इह च स्तुतिस्तोत्रगन्धर्वादि रवणं कुहराणि शास्त्रमण्डपादीनि गाथार्थः ॥ | विणयगाहा॥(१६-४६)।स्फरन्तयता विद्युतश्च स्फुरद्विद्युतः, विनयेन नताः विनयनताः विनयनताश्च ते प्रवरमुनिवराश्चेति,
॥१२॥