________________
44545
नन्दी
हारिभद्रीय वृत्ती
सूर्यस्याचलन्द्रतया स्तवः
AASAR
धर्म एव वररत्नमण्डिता प्रधानरत्नमण्डिता चामीकरमेखला यस्य स धर्मवररत्नमाण्डितचामीकरमेखलाकः, क्रियायोजना पूर्ववदेव अवसेया, इह धर्मो द्विविधा, मूलगुणोत्तरगुणरूपः, तत्रोचरगुणधर्मो रत्नानि मूलगुणधर्मस्तु चामीकरमेखलेति, तथा च न राजते | मूलगुणधर्मचामीकरमेखलोत्तरगुणधर्मरत्नभूषणविकलेति गाथार्थः॥
नियमूसियल्गाहा॥(१३-४५)।इहोत्सृतशब्दस्य व्यवहितः प्रयोगो द्रष्टव्यः, ततश्चैवं भवति-नियम एव कनकशिलातलानिनियमकनकशिलातलनि तेषूचिकृतानि उज्ज्वलानि ज्वलन्ति चिन्तान्येव प्राकृतशैल्या कूटानि यस्मिन् स तथाविधः, इह च नियमः इन्द्रियनोइन्द्रियनियमः परिगृह्यते, उत्सृतानि अशुभाध्यवसायपरित्यागात्, उज्ज्वलानि प्रतिसमयं कर्ममलविगमात्, ज्वलन्ति सदा सूत्रार्थानुस्मरणरूपत्वात्, चिन्त्यते यैस्तानि चित्तानि, उक्तं च-"चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दौरैस्तस्य शिष्टा विपत्तयः॥१॥" इति, दनं वृक्षसमुदायः, नन्दनं च तद्वनं च नन्दनवनं, तत्र नन्दन्ति यत्र सुरसिद्धदैत्यविद्याधरादयस्तनंदनं वनमित्यशोकसहकारादिजालं, मनो हरतीति मनोहरं,लतावितानविविधपुष्पफलप्रवालाद्युपपेतत्वात्,नन्दनवन च तन्मनोहरं चेति 'विशेषण विशेष्येण बहुल'मिति समासः, तस्य, सुरभिश्चासौ शीलगन्धश्च सुरभिशीलगन्धः तेनाध्मातः-व्याप्तो यः स तथाविधस्तस्य क्रिया पूर्ववत् , इह च संघमंदरगिरेः सन्तोष एव नन्दनवनं, तथाहि-नन्दन्ति तत्र साधव इति, तदेव विविधामोषध्यादिलब्ध्युपतत्वान्मनोहरं तस्य सुरभिशीलगन्ध एवेति, अथवा मनोहरत्वं सुरभिशीलगन्धाविशेषणमिति गाथार्थः ।।
जीवदय० गाहा ॥(*१४-४५॥ जीवदयैव सुन्दराणि स्वपरनिवृत्तिहेतुत्वात् कन्दराणि वस्तुतस्तपस्विनिलयत्वात् ,