SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ नन्दी हारिभद्रीय वृत्ती ॥ १०॥ CREASEKASHASHASKASAEKASS म्बिनःत एव ग्रहास्तेषां प्रभा-एकदुर्णयज्ञानलक्षणा तां नाशयति अनन्तनयसंकुलप्रवचनसमुत्थज्ञानालोकेन अपनयतीति समास-13 संघस्य स्तस्य, तपस्तेजोदीप्तलेश्यस्य तपस्तेज एव दीप्ता-उज्ज्वला लेश्या दीधितयो यस्य, ज्ञानोद्योतस्यति गतार्थ, जगति लोके सूयेसमुद्रभद्रं-मङ्गलं भवतु, कस्य-दमसञ्चसूर्यस्य दमः-उपशमो भण्यते तत्प्रधानः सङ्घसूर्यः दमसङ्घसूर्यस्तस्येति गाथार्थः।साम्प्रतं तयास्तवः | सङ्कस्यैव महत्तया समुद्ररूपकेण स्तवमाह भ६०गाहा ॥११-४५)॥ सङ्घसमुद्रस्य भद्रं भवत्विति क्रिया, किम्भूतस्य?-धृतिवेलापरिगतस्य धृतिः-आत्मपरिणामः सैव वेला-वेदिका जलान्तररमणलक्षणा मर्यादा वा तथा परिगतस्तस्य, स्वाध्याययोगमकरस्य कर्मविदारणमहाशक्तियुक्तत्वात् स्वाध्याय एव मकरो यस्मिंस्तस्य, अक्षोभ्यस्य परीषहोपसर्गसम्भवे निष्प्रकम्पस्य भगवतः समग्रैश्वर्यादियुक्तस्य, रुन्दस्येति विस्तीर्णस्येति गाथार्थः।। इदानीं सङ्घस्यैव स्थिरतयाऽचलेन्द्ररूपकेण स्तुतिं कुर्वन्नाह सम्मइंसणगाहा॥१२-४५)।सम्यग् अविपरीतं दर्शनं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गत्वात् सारत्वाद्वजं सम्यग्दर्शनवज्रं तदेव दृढं रूढं गाढं अवगाढं पीठं यस्य सङ्घमहामन्दरगिरेःस सम्यग्दर्शनवज्रदृढरूढगाढावगाढपीठस्तस्य, 'वंदे' त्ति द्वितीयार्थे पष्ठी प्राकृतशैल्या आर्षत्वाच्च, तं वन्दे इत्यर्थः, तत् सम्यग्दर्शनवज्रपीठं, दृढमिति निष्प्रकम्पं शङ्कादिशल्यरहितत्वात्, रूढमिति ॥१०॥ वृद्धिमुपगतं, प्रतिसमयं विशुध्यमानत्वात् , प्रशस्ताध्यवसायस्थानेषु वर्तनात्, गाढमिति निविडं तीव्रतत्त्वरूचिरूपत्वात् , सुष्ठुश्रद्धानरूपत्वाादित्यर्थः, अवगाढमिति निमग्नं, जीवादिपदार्थेषु सम्यगवबोधरूपतया प्रविष्टमित्यर्थः, धर्मवरेत्यादि धारयतीति धर्मः 91445454643
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy