SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ नन्दी वृत्ती IMI मध्यगण्डिका यस्य, गुणा-उत्तरगुणाः त एव तत्परिकरस्वात् केसराणि यस्य विद्यन्ते इति गुणकेसरवत् तस्य गुणकेसरवतः, श्रा-II संघस्य हारिभद्रीय वकजनमधुकरीपरिवृतस्येति प्रकटार्थ, नवरमभ्युपेत्य सम्यक्त्वं प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनाम-18 पबचन्द्र तया स्तव: गारिणां च समाचारी भृणोतीति श्रावकः, उक्तंच-"योऽह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धाम॥९ ॥ सौ श्रावक उच्यते ॥१॥" जिनसूर्यतेजोबुद्धस्य केवलज्ञानभास्करविशिष्टसंवेदनप्रभवधर्मदेशनाबुद्धस्योति भावार्थः, श्रमण गणसहस्रपत्रस्येति प्रकटार्थमेव, नवरं श्राम्यतीति श्रमणः 'कृत्यलुटो बहुल' मितिवचनात् कर्तरि ल्युट्, श्राम्यतीति तपस्यति, एततदुक्तं भवति-प्रवज्यादिवसादारभ्य सकलसावद्ययोगविरतो गुरूपदेशादनशनादि यथाशक्त्याप्राणोपरमात्तपश्चरतीति श्रमणः, उक्तं च-1, “यः समः सर्वभूतेषु, स्थावरेषु त्रसेषु च । तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः॥१॥ इति गाथाद्वयार्थः॥ इदानी सङ्घस्यैव सौम्यतया चन्द्ररूपकेण स्तवमाह तवसंयमगाहा (७९-४५)।तपःसंयममृगलाञ्छन तपःसंयममृगचिन्हा-अक्रियाराहुमुखदुष्पधृष्य! इह अक्रिया|शब्देन नास्तिका गृह्यन्ते, अनभ्युपगमाद्, अविद्यमानपरलोकक्रियाः अक्रियाः त एव राहुमुखं तेन दुष्प्रधृष्यः-अनभिभवनीयस्त| स्यामन्त्रणं, नित्यमिति सदा जय सङ्घचन्द्रः, निर्मलसम्यक्त्वविशुद्धज्योत्स्नाक इह मिथ्यात्वभावतमोरहित निर्मलं सम्यस्वमुच्यते तदेव विशुद्धा-निर्मला ज्योत्स्ना-चन्द्रिका यस्य स तथाविधः तस्यामन्त्रणमिति गाथार्थः । अधुना सङ्घस्यैव प्रकाशकतया सूर्यरूपकेण स्तवमाह परतित्थिय गाहा ॥(*१०-४५)॥ परतीर्थकग्रहप्रभानाशकस्य इह परतीथिका:-कपिलकणभक्षाक्षपादादिमतावल CARROREKARAN
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy