________________
नन्दीहारिभूद्रीय वृत्तौ
॥ ८ ॥
क्वाश्रमिणे नमः, व्याख्यातं गाथार्धं, चरकादिभिरतुल्यत्वान्नास्य प्रतिचक्रं विद्यते इत्यप्रतिचक्रं तस्य जयो भवतु इति, सुप्रणिधानमेतत्, सदा सर्वकालं, संघश्चक्रमिव संघचक्रं तस्येति गाथार्थः ॥ ५ ॥ इदानीं संघस्यैव मार्गगामित्वतो रथरूपकेण स्तवं कुर्वग्राह
भद्दं० गाहा ( * ६-४३ ) भद्रं कल्याणं भवतु, कस्य ? - संघरथस्य, भगवत इति योगः, किंविशिष्टस्य १-शीलोच्छ्रितपताकस्य, प्राकृतशैल्याऽन्यथोपन्यासः, शीलग्रहणात् अष्टादशशीलाङ्गसहस्रपरिग्रहः, तथा तपोनियमतुरगयुक्तस्य तपःसंयमाश्वयुक्तस्येत्यर्थः स्वाध्यायो-वाचनादिः, यथोक्तम्- "वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा चे”ति, तत्र स्वाध्याय एव शोभनो नन्दिघोषतूर्यरवो 'सुनेमिघोसस्स' ति नेमिनिर्घोषो वा यस्य स तथाविधो यस्य, इह च शीलांगनिरूपणे सत्यपि तपोनियमनिरूपणं प्रधानपरलोकांगत्वख्यापनार्थम् अस्ति चायं न्यायो यदुत सामान्योक्तावपि प्राधान्यख्यापनार्थं विशेषाभिधानमिति, यथा ब्राह्मणा आयाता वशिष्टोऽप्यायात इति, एवमन्यत्रापि योजनीयमित्यलं प्रसंगेनेति गाथार्थः ॥ संघस्यैव लोकासंश्लिष्टत्वतः पद्मरूपकेण स्तवं प्रतिपादयन्नाह
कम्मरय० गाहा ॥ (* ७-४४ ॥ ) सावय० गाहा।। * (८-४४ ॥ संघपद्मस्य भद्रं मङ्गलं भवत्वितिक्रिया, किम्भूतस्य :कर्मरजोजलौघविनिर्गतस्य इह ज्ञानावरणादिलक्षणं कर्म तदेव अनेकधा जीवगुण्डनाद्रजो भण्यते तदेव भवकारणत्वाज्जलौषः तस्माद्विनिर्गत इव विनिर्गतः, तथा चाविरतसम्यग्दृष्टेरप्यपार्द्धपुद्गलपरावर्त्तः परः संसार उक्त इत्यतो विनिर्गतस्तस्य, श्रुतरत्नमेव दीर्घनालं. यस्य सः, तद्वलादेव निर्गत इति भावनीयं, पंच महाव्रतानि - प्राणातिपातादिविनिवृत्तिलक्षणानि तान्येव स्थिरा दृढा कर्णिका
संघस्य चक्रतया
पद्मतया
च स्तवः
॥ ८ ॥