________________
नन्दीहारिभद्रीय वृचौ
॥ ७ ॥
जा विसोही समितीओ भावणा तवो दुविहो । पडिमा अभिग्गहाविय उत्तरगुणमो वियाणाहि || १ || " एत एव भवनानि एभिर्गह-प्रचुरत्वादुत्तर गुणानामेभिः संकुलं, सङ्घन गरमभिगृह्यते, तस्यामन्त्रणं हे गुणभवनगहन !, तथा श्रुतरनभृत् श्रुतान्येव आचारादीनि निरुपमसुखहेतुत्वाद्रत्नानि तैर्भृतं - पूरितमित्यर्थः तस्यामन्त्रणं, तथा दर्शनविशुद्धरथ्याक, इह दर्शनं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यग्दर्शनं गृह्यते तच्चौपशमिकादिभेदात् पञ्चविधं, तथा चोक्तम्- "तं च पंचधा सम्मं उवसमं सासायणं खयोवसमियं वेदयं खइयं" ति, दर्शनमेवा सारमिध्यात्वादिकचवररहिता शुद्धा रथ्या यस्य तत्तथाविधं तस्यामन्त्रणं, 'संघनगर' सङ्घः चातुर्वर्णः श्रमणादिसंघातः स नगरमिव संघनगरं तस्यामन्त्रणं, यथा पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः, उक्तञ्च - " उपमितं व्याघ्रादिभिः सामान्याप्रयोग " ( २-१-५६) भद्रं कल्याणं तव भवतु, अखण्डचारित्रप्राकार! चारित्रं- मूलगुणा अखण्डम् अविराधितं चारित्रमेव प्राकारो यस्य तत्तथाविधं तस्यामन्त्रणमिति गाथार्थः || ४ || संसारोच्छेदित्वात् संघस्यैव चक्ररूपकेण स्तवं कुर्वन्नाह
संयम० गाहा ( * ५-४३ ) संयमत पस्तुम्वारकाय नमः संयमश्च तपांसि च संयमतपांसि तुम्बं च अरकाश्च तुंबारकाः, तत्र यथासंख्यं संयमतपांस्येव तुम्बारका यस्य तत् तथाविधं तस्मै नमः, तत्र संयमः 'पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्वेति संयमः सप्तदशभेदः ॥ १ ॥ तपो द्वादशप्रकारं बाह्यमभ्यन्तरं च तत्र बाह्यं षड्विधं यथोक्तम्- "अनशनमूनोदरता वृत्तेः संक्षपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् || १ || अभ्यन्तरमपि षड्विधम् उक्तञ्च- 'प्रायश्चित्तं विनयो वैयावृत्त्यं स्वाध्यायो ध्यानं व्युत्सर्गथे” ति, सम्मत्तपारियल्लस्सात्त पारियलं बाह्यपुष्ठकस्य बाह्या भ्रमिरुच्यते, ततश्च सम्य
संघस्य
नगरतया
'स्तुतिः
119 11