________________
सर्व
नन्दीपारिभद्रीय वृत्तों
७ वक्तव्यमिति, भद्रं जिनस्य 'जिं जये' अस्य औणादिकनप्रत्ययान्तस्य जिन इति भवति, रागादिजयाज्जिन इति, अनेनापाया-31
तिशयमाह, अपायो-विश्लेषः रागादिभिः सार्द्धमात्यन्तिकवियोग इत्यर्थः, आह-अपायातिशये सति ज्ञानातिशयभावान् व्यतिक्रमः जिनस्तुतिः
| किमर्थ, फलप्रधानाः समारम्भा इति ज्ञापनार्थ, भद्रं सुरासुरनमस्कृतस्येत्यनेन पूजातिशयमाह, नहि विभवानुरूपां पूजामकृ|8| त्वैव सुरासुरा नमस्कारक्रियायां प्रवर्तन्त इति, उक्तं च-"अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनियामरमासनं च । भामण्डलं दुन्दु|भिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥१॥" इति, पूजातिशयान्यथाऽनुपपत्त्यैव वागतिशयो गम्यते, भद्रं धुतरजस इत्यनेन
सकलसंसारिक्लेशविनिर्मुक्ता सिद्धावस्थामेवाह, यतो वध्यमानं कर्म रजो भण्यते, तदभावस्त्वयोगिसिद्धानामेव, न पुनरन्येषां, यत | आह-"जीवे णं एस जीवे एयइ वेदति चलइ फंदइ ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहबंधए वा" * इत्यादि, तत्थ "सत्तविहवंधगा होति पाणिणो आउवज्जगाणं तु । तह सुहुमसम्पराया छब्धिहबंधा विणिहिट्ठा ॥१॥ मोहाउगवज्जाणं | पगडीण ते उ बंधगा भणिया । उवसन्तखीणमोहा केवलिगो एगविहबंधा ॥२॥ ते उण दुसमयठिइतस्स बंधगा ण उण संपरायस्स। सेलेसि पडिवना अबंधगा होति विया ॥३॥" आह-भगवतः संसारातीतत्वात् परमकल्याणरूपत्वात् किमेवमुच्यते-भद्रं भवतु, न च स्तोत्रा भणितं सर्वमेव भवतीति, अत्रोच्यते, सत्यमेतत् , तथापि कुशलमनोवाकायप्रवृत्तिकारणत्वास दोष इत्यल प्रसङ्गेनेति गाथार्थः ॥२॥ एवं तावत्तीर्थकरनमस्काराः प्रतिपादिताः, साम्प्रतं तीर्थकरानन्तरः सङ्घ इतिकृत्वा तीर्थान्तरग्रामव्युदासेन नगररू|पकेण तत्संस्तवं कुर्वमाह
गुण० गाहा (*४-४२) 'गुणभवनगहन' इह गुणा:-पिण्डविशुद्धयादयः उत्तरगुणा अभिगृह्यन्ते, यथोक्तम्--"पिंडस्स
AKAREGANGANAGAKARSA
134343445454SASUR
॥
६
॥