________________
श्री
वीरजिन स्तुतिः
॥५
॥
नन्दी
I'ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतींगना ॥१॥ भगोऽस्यास्तीति भगवानिति, अनेन हारिभद्रीय
चोभयसम्पदमाह, स्वपरोपकारित्वादैश्वर्यादेरित्यलं प्रसङ्गेनेति गाथार्थः ॥१॥ 'व्याख्यानयन्ति केचित् स्तुतिमनामन्यथापि | विद्वांसः। तत्राप्यपौनरुक्क्यं सूक्ष्मधिया चिन्तनीयमिति ॥१॥ एवं तावदनादिमन्तो मतास्तीर्थकरा इति ज्ञापनार्थ सामान्येन नमस्कारमभिधाय साम्प्रतमासनोपकारित्वात् सकलदुःखपरमौषधभूतप्रवचनप्रणेतृत्वाद्वर्त्तमानतीर्थाधिपतेः नमस्कारं प्रतिपादयबाह
जयति सु० गाहा ॥ (* २-१५) ॥ जयतीति पूर्ववत्, श्रुतानां-आचारादिभेदभिमानांप्रभवः प्रभवन्त्यस्मादिति प्रभवः, तदर्थाभिधायकत्वात्, कारणमित्यर्थः, ऋषभादयोऽप्येवंभूता एव अत आह-तीर्थकराणामपश्चिमो जयति, तत्र तीर्थकरणालास्तीर्थकरास्तेषां तीर्थकराणां भरते अधिकृतावसर्पिण्या पश्चिम एवानिष्टशब्दपरिहारार्थमपश्चिम इत्युच्यते, पश्चानुपूर्ध्या वा पश्चिम इति, जयति गुरुर्लोकानां गृणाति शास्त्रार्थमिति गुरुः, लोकानां इति-सत्त्वानां, जयति महात्मा अनन्तज्ञानवीर्ययुक्तत्वान्महानास्मा यस्य स महात्मा, महावीर इति 'सूर वीर विक्रान्ता' विति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, 'ईर गतिप्रेरणयो' रित्यस्य वा विपूर्वस्य विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरः, महाँश्चासौ वीरश्च महावीर इति गाथार्थः । पुनरस्यैवातिशयप्रदर्शनद्वारेण स्तुतिमभिधित्सुराह
भई गाहा(*३-२३) भद्रं' कल्याणं भवतु, कस्य :-सर्वजगदुद्योतकस्येत्यनेन ज्ञानातिशयमाह, इह च "चतुर्थी चाशिष्यायु-| काव्यमद्रभद्रकुशलसुखार्थहितै" रिति(२-३-७३) वचनात् षष्ठयपि भवत्येव, यथा आयुष्यं देवदत्तायायुष्यं देवदत्तस्येति, एवं भद्रादिष्वपि
SAॐॐॐॐॐ