________________
नन्दीहारिमद्रिय वृतौ
॥३॥
शरीरं जीवविप्रमुक्तं अनुभूतनंदिभावत्वात् पश्चात्कृतभावस्य द्रव्यत्वात्, यथोक्तम् — “ भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥ १ ॥' भव्यशरीरद्रव्यनंदिश्च नन्दिपदार्थपरिज्ञानभाव - योग्यं बालादिशरीरं पुरस्कृतभावत्वादस्य, व्यतिरिक्तः पुनः क्रियाविष्टो द्वादशविधस्तूर्याङ्गसङ्घातेोऽयम् तद्यथा - भंभा १ मउंद २ मद्दल ३ कडंब ४ लरि ५ हुडुक्क ६ कंसाला ७ । काहल ८ तलिमा ९ वंसो १० संखो ११ पणवो १२ य बारसमो ॥ १ ॥' भावनन्दिरपि द्विविधैव-आगमतो नोआगमतश्च तत्रागमतो भावनन्दिः नन्दिपदार्थज्ञस्तत्र चोपयुक्तः, 'उपयोगो भाव' इतिकृत्वा, नोआगमतस्तु भावनन्दिः पञ्चप्रकारज्ञानसमुदायः, नोशब्दो देशवचनः, अथवा पञ्चप्रकारज्ञानस्वरूपप्रतिपादकोऽध्ययनविशेषः, नोशब्दो देशवचन एव ।। अयं चाध्ययनविशेषः श्रुतांशेन सर्वश्रुताभ्यन्तरभूतो वर्त्तते, अत एव सर्वश्रुतारम्भेष्वेव विघ्नवि| नायकोपशान्तये मङ्गलार्थमभिधीयत इति, अस्य च मंगलस्थानावसरप्राप्तस्य सत आचार्याः विनेयानां सूत्रार्थगौरवात्पादनार्थमविच्छेदेन सन्तानागतसूत्रार्थपददर्शनार्थं चादावेवावलिकामभिधाय व्याख्यानाय यतन्ते, सर्वे श्रुतार्थाश्च यतस्तीर्थकरप्रभवा अतः प्रज्ञापक श्रावकपाठकाः अभिलषितार्थसिद्धये प्रवर्त्तमानाः प्रधानोपायत्वाद्भगवद एव नमस्कारपूर्वकं प्रवर्त्तन्त इत्यत आह ग्रंथकारः -
जयति० गाथा।।(१-२ पत्रे ) ।। इन्द्रियविषयकषायघातिकर्म भवेोपग्राहि कर्मशत्रुगणजयाज्जयतीत्युच्यते, किंविशिष्टो जयति?जगज्जीवयोनिविज्ञायकः, इह जगच्छब्देन सकलधर्माधर्माकाशपुद्गलास्तिकायपरिग्रहः, जीवशब्देन तु सकलजीवास्तिकायपरिग्रहः, उक्तं च- "जगन्ति जंगमान्याहुः, जगद् ज्ञेयं चराचरम्” योनयः-सचित्ताद्याः, उक्तञ्च- 'सचित्तशीतसंवृत्तेतरमिश्रास्तद्योनयः' (तत्त्व ०२-३३)
नन्द्या
निक्षेपाः
॥ ३ ॥