SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ नन्दीहारिभाद्रिय वृत्तो CREA4% ॥२ ॥ OSA-ANSARANASALAMAUSAMSUSA परमपदप्राप्तिहेतुत्वाच्छ्योभूतो वर्त्तते, श्रेयांसि बहुविनानि भवन्ति, यथोक्तम्-"श्रेयांसि बहुविनानि, भवन्ति महतामपि । अश्रेयसि | नन्या |प्रवृत्तानां, कापि यान्ति विनायका ॥१॥ इति, अतोऽस्य प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलाधिकारे नन्दिर्वक्तव्यः । अथ शब्दार्थः नन्दिरिति का शब्दार्थः?, उच्यते, 'टु णदि समृद्धा' वित्यस्य धातोः 'इदितो नुम् धातो' रिति (७-१-५८) नुमि विहितेऽनुबन्ध निक्षेपाथ लोपे च कृते उणादिक: इन् प्रत्ययो विधीयते, 'इन् सर्वधातुभ्य' इति वचनाद्, अनुबन्धलोपे च कृते सति नन्दि, सो रुवं विस|जनीयश्चेति नन्दिः, नन्दनं नन्दिः नन्दन्त्यनेनेति वा नन्दन्त्यस्मिभिति वा नन्दयतीति वा तदभेदोपचारानन्दि: हर्षः प्रमोद इत्यनान्तरं, 'ताभ्यामन्यत्रोणादय' इति वचनाद् ताभ्यामिति सम्प्रदानापादानाभ्यां अन्यत्र उणादयः प्रत्यया भवन्ति, अन्ये तु नन्दीत्यभिदधति, तत्रापि नन्दिस्थिते 'इक् कृष्यादिभ्य' इति (उणा.) इक् प्रत्ययः, स च 'कृत्यलुटो बहुल' (३-३-११३)मिति वचनाद्भावे करण वा अवगन्तव्य इति, ततः 'कृदिकारादक्तिनः, (वार्तिक) 'सर्वतोऽक्तिन्नादित्येक' इति स्त्रीप्रत्ययः, अस्य भावार्थः कृदिकारान्तो यः शब्दः क्तिन्वर्जितस्तस्मात् स्त्रीप्रत्ययो भवति, अपरे तु सर्वतः अक्तिमर्थादिकारान्तात् स्त्रीप्रत्ययो भवतीति | मन्यन्ते, अनुबन्धलोपे च कृते 'यस्ये' (६-४-१४८) तीकारलोपे च नन्दीति रूपं भवति, नन्दनं नन्दी नन्दन्त्यनयेति वा भव्याः | प्राणिन इति नन्दी, इत्यलमप्रस्तुतातिप्रसङ्गेनेति अयं च नन्दिश्चतुर्विधः, तद्यथा- नामनन्दिः स्थापनानन्दिः द्रव्यनन्दिः भावनीन्दथेति, तत्र नामस्थापने प्रकटार्थे, द्रव्यन-13॥ |न्दिर्द्विधा-आगमतो नोआगमतब, तत्रागमतो नन्दिपदार्थज्ञः तत्र च अनुपयुक्तः 'अनुपयोगो द्रव्य' मिति वचनात् , नोआगमतस्तु ज्ञशरीरद्रव्यनन्दिः भव्यशरीरद्रव्यनन्दिः शरीरभव्यशरीरव्यातरिक्तश्च द्रव्यनन्दिः, तत्र ज्ञशरीरद्रव्यनन्दिः नन्दिपदार्थज्ञस्य 25
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy