________________
-
कम
-
-
-
-
-
-
-
-
-
-
--
-
-
।। विज्ञातार्हन्मते पुसि, न स्वान्यात्मविबाधने । विचारकणिकाभेद, आत्मत्वस्याविशेषत: ॥४२॥ अत एव । आगमो
जिनाचख्यरेषणासमिति मुनेः । अन्यथारभ्य दीक्षायाः, प्रोच्येतानशनक्रिया ॥४३॥ अपवादानपि प्राह:. . द्धारक- निर्ममानां महात्मनां । सेवनीयतया कालमनतिवृत्य वाङ्मये ॥४४॥ सर्वत्र संयम रक्षेदात्मानं तु ततोऽपि च । फलकृति- मुच्येत सोऽतिपातादे, शुद्धेनैवात्महिंसनम् ॥४५॥ तथाच ज्ञानवृद्धयादिमपवादाश्रितिहिता । अवलम्ब्य, न विचारः सन्दोहे
यद्भिन्नं तस्मादात्मविशोधनम् ॥४६॥ गीत: कृतयोगीत्यादिस्मृतेर्सानादिसाधने । अपवादे न दोषोऽस्ति, ॥२०॥ प्रमादस्य तु शोधनम् ॥४७॥ ये त्वेनत्सूत्रमालम्ब्य, यथाछन्दतयाटति । न तैर्शाता श्रुताम्नातापवादस्था विशुद्धता
॥४८॥ उत्सर्गरक्षणे दक्षोऽपवादो नान्यलक्षणः । विहाराहत्पूजनादिः, स न यज्ञेऽगिनां हुतिः ॥४९॥ उत्सर्गपालनाशक्ताचपवादावलम्बनं । निस्त्रिंशानां ततो युक्तो, न द्वितीयाश्रयः क्वचित् ॥५०॥ सोपद्रवं पुरं घाम, ग्रामो वा द्वादशाब्दतः । अर्वाक त्याज्यतया गीत-धुर्याणां गीयते श्रुते ॥५१॥ निःस्पृहाणामियं वार्ता, त्यागेऽपाययुताश्रितेः । चेत्कथं न भवेद्वर्गत्रयसाधनधारिणाम् ? ॥५२॥ यथैव तपस: पाप-प्रचितिः क्षयमाप्नुयात् । तथैवोपक्रमादायुरेति किं न क्षयं बुधाः ? ॥५३॥ न यथर्ते तपः पाप्म-क्षयो महामुनेपि । नार्वाक तथानुपक्रान्तस्यायुषस्त्रुटिसम्भवः ॥५४॥ जीविते श्वसनो जीवोऽस्य त्रुटेः श्वसनं कथं ? । पार्थक्यमायुषो नाम्नोऽवधायेंदं विचिन्त्यताम् ॥५५।। आयुषोऽध्यवसायाद्याः, श्रुतिसिद्धा उपक्रमाः । युक्ताऽऽश्रिते: सविघ्नाया, हानिरायूरिरक्षिषोः ॥५६॥ एवं च वध्यकर्मालौ, पेलवायां वधो मतः । तेनायुषो यतोऽकारि, स्थितस्यापि 'यदुत्क्रमः ॥५७।। तादृशं तेन बद्धं चेन विनोपक्रम तथा । तेनासौ प्रेरितश्चेन्नाकमणां सा भवेत्क्वचित्
॥५८॥ नचास्ति नियमस्तादृग्, यत्तेनासौ तथाकृतः। यतोऽज्ञानप्रमादादि, स्वादृष्टोद्भवमेव तत् ॥५९॥ न च तत्प्रेरको जन्तुः, कषायादिविनाकृतः । न चावनाभिसन्धेश्वाभावो येन न हिंसनम् ॥६०॥ वधकोऽसौ न । ॥२०॥ निर्लेपो, येन वध्यनसां चयः । वधे हेतुर्भवेदेको, नाश्रवः स्याद्विहिंसकः ॥६१॥ हिंसाऽभावेऽप या हिंसा,
32