________________
आगमो
द्धापक
कृति
सन्दोहे
॥१९॥
बड
आमया विश्वे, दृश्यन्ते द्विविधा यतः । समेोद्भवाः केचित् केचित्समवर्जिताः ||२२|| आद्येषु सत्सु मनुजैस्त्याज्यं तद्धाम सर्वथा । न ते यद्यपि सर्वेषां तत्रस्थानां तनौ नृणाम् ||२३|| आमयास्तदपि त्याग, आख्यातोऽस्य महर्षिभिः । अपायशङ्कासद्भाव, आदितस्तस्य वर्जनम् ||२४|| युग्मम् ॥ न चान्यस्थानसङ्क्रान्त, आदितो गदसम्भवः । निरीक्ष्याग्निं वसेत्कोऽन्यो, बालिशात्तत्र धामनि ||२५|| गेहेशूरतमाः केचिन्न निर्गच्छन्ति तादृशात् । आदावालयतो द्रङ्गात्किं शौचन्त्यामयोद्भवे ? ||२६|| उपप्लुतं त्यजेद्वीमान्, सुखावासे वसेत्सुखम् । तत्रापि कर्मसामर्थ्याचेद्भवेद् व्याधिसम्भवः ||२७|| तदा निरुपमं धर्म-स्मरणं हृदि सन्दधेत् । तावद्विज्ञेन भेतव्यं, यावन्न भयसङ्गमः ||२८|| कर्मणां मे विपाकोऽयं तन्न तत्कृतिरायतौ । हितदेति निराबाधं, श्रयेद्धमं सुखावहम् ||२९|| आत्तरौद्र यतो मूलं भवस्य दुःखदायिनः । इष्टानिष्टाप्तिवि - रतेरिच्छा हेतुस्तयोर्मता ||३०|| आयुश्च चञ्चल दर्भप्रान्ता विन्दुरिवानिशं । यान्ते मतिरसौ प्रत्यगतेमूलमनश्वरम् ||३१|| शोकतापादयोऽसात वेदनीयस्य कारणम् । दुर्गतौ पतितो जन्तुर्नान्यत्किमपि चेतयेत् ||३२|| सातं पुरा भवेद् बद्धं तदप्येतेन तद्भवे । सङक्राम्यतेऽसुखतया, विषेण दुग्धवृन्दवत् ||३३|| अत एव श्रुते प्रोक्ता, ज्ञानाद्याराधनान्तिमे । भागे भवस्य धन्यानां दुष्करा चन्द्रवेध्यवत् ||३४|| न चान्त्ये ज्ञानदृष्टघादे, राधना संस्कृतिं विना | संस्कारेपि सति न साराधना चलचेतसः ||३५|| न च चित्तं स्थिरं स्थाने, सोपप्लवेऽङ्गनां भवेत् । सोपद्रवस्य तद्धाम्नो, वर्जनं हितन्ननु || ३६ || भयान् सर्वान् परित्यज्य, निर्गत्य साधवोऽभवन् । तेsपि सोपप्लवं क्षेत्रं त्यजेयुर्द्वरतो पि हि ||३७|| अन्यदास्तां चतुर्मास्यामपि जन्तुसमाकुले । कुर्यु रोगपराभूतौ स्थानेऽन्यस्मिन् समाक्रमः ||३८|| ज्ञानादिवृद्धये देहपालनं क्षेत्रसौस्थ्यतः । ते निर्दिष्टे यतः सूत्रं, यथालाभं वद्वपुः ||३९|| उपप्लुते वसन् स्थाने, ज्ञानादेः पोषकः कथं १ । स्यात्ततोऽनार्यसंस्थाने, विहारोऽपि निवारितः ॥ ४० ॥ अप्राप्तकाले यो धत्ते, आत्मनोऽनशनक्रियां । स चात्महा न शस्यः स्याद्रौद्रध्यानपरायणः ॥ ४१ ॥
कर्म
फल
विचार:
।। १९।।