SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति दोहे ॥८८॥ मिथ्यात्वविचारः (१६) ननु 'जीवो अणाइणिहणों' इत्यादिवचनाज्जीवानामनादित्वं, गत्यादय औदयिकभावा अपि संसारिसतवादनादिका एव परं गत्यादयस्तेषां बन्धे उदये च भवन्ति ये मिथ्यात्वादिबन्धहेतुयुक्ताः, मिथ्यात्वे सति च कषायादिहेतूनामवश्यं भावः । किञ्च नष्टे च तस्मिन्नवश्यं कषायादयो निर्मूलकाषं कषिता इव विद्यमाना अणि तन्नाशे अर्वागर्थपुद्गलावर्तात् सिद्धिप्राप्तिनियमात् । परं किं तन्मिथ्यात्वं कतिभेदं च तदिति १ । स्वरूपतस्तावदात्मगुणः सम्यक्त्वं यतस्तत्सिद्धेष्वन्यौ - पशमिकादिभावशून्येष्वपि तिष्ठति, तदावारकं च दर्शनमोहनीयं । नन्वेतस्य मोहनीयत्वे कथमावारकत्वं । सत्यं, आभोगादिमिथ्यात्ववतां सत्यपि श्रद्धानोत्पा दानुकूले संयोगे ज्ञातेऽपि चार्हततच्चे नैति तत् श्रद्धानपथं यदा तदा तस्य मोहनीयता, परमतथाविधानां यन्नात्मगुणरूपं सम्यक्त्वं जायते, तस्यावारकत्वं । अ तस्वार्थभाष्ये- 'तदावरणीयस्ये’त्याहुः । न्तानुबन्धिचतुष्कस्य तद्घातकतेति १। ननुं सम्यक्त्वगुणस्यावारकं दर्शनमोहनीयं, कथमन दिरत्नत्रय्यां वाऽप्रीतिलक्षणो द्वेषस्तद्विपर्यये च प्रीतिरूपो सत्यं, रागद्वेषयोरुदयेन देवादितत्त्वत्रय्यां सम्यग्दर्शनारागो यावत्तिष्ठति तावन्न यथार्थप्रतीतिरूपं सम्यक्त्वमावि - भवति, अपूर्वकरणेन भिन्ने एव तस्मिन् तदाविर्भवेत् । जातेऽप्यस्मिन् प्राकू तावत् तत्प्रीत्यप्रीतिनाशे एव सम्यक्त्वस्य प्रतीतिरूपस्य दर्शनमोहनीयोदयेन घातः । स्पष्टं चैतत्सास्वादन विचारणया । ततो युक्तं द्वयोरप्यनयोरावारकत्वं मोहनीयत्वं चेति । सति च तदुदये तत्त्वाश्रद्धानं, तदेव == मिथ्यात्व विचार: ॥८८॥ ॥८८॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy