________________
आगमो
द्धारककृति
सन्दोहे
॥७५॥
तारादिषु तथाविधावकाशं विदित्वा तेन संचरेयुरपि । विराधनाव्यवहार त्याजनमपीष्टमेव केवलिनः । यतः प्रासु कतिलजलस्थंडिलानामपि व्यवहाररक्षणाय न दत्तानुज्ञा भगवता । वज्रस्वामिना च विद्यापिण्डपरिहाराय सह साधुभिः स्वीकृतमनशनं, श्रीओघनिर्युक्तौ भङ्गपटूकं निवा - रितमशुद्धमित्युक्त्वेति । ततो गीतार्थैर्यतनावद्भिर्भाव्यं । एष एव च गीतार्थविहार इति । इति आगमोद्धारक - आचार्यप्रवरश्री आनन्दसागरसूरिभिः संदृन्ध अहिंसाविचारः
आचेंलक्यम् (१४)
ननु छेदोपस्थापनीयचारित्रं पूर्वान्त्यजिनसाधूनां दशविध आचेलक्यादिः कल्पोपि तेषामेव, परेषामपि साधूनां स्यादिति ? |
आद्यान्त्यजिनयतीनां 'सप्रतिक्रमणो धर्मः इति तेषां नित्यमुभयसन्ध्यं पक्षादिषु प्रतिक्रमणान्यवश्यं कार्याणि, तृतीयौषधज्ञातमपि मुख्यतस्तान्येवाश्रित्य ततो लग्नो न वाऽतिचारः लग्नोपि कुत्र व्रतादिषु लग्न इति प्रतिक्रमणकरणाकरणयोर्नोपयोगी, भवतु प्रायश्चित्तग्रहणाग्रहणयोस्तदुपयोगः, नियते च प्रतिक्रमणे प्रतिक्रान्तव्यगवेषणाssवश्यकी, प्रतिक्रन्तव्यश्वाचेलक्यादिकल्प इति छेदोपस्थापनीयकल्पस्थितिरूपतया इयं दशधाऽऽचेलक्यादिका स्थितिः, श्रीस्थानाङ्गे प्रोच्यते द्वाविंशतिजिनसाधूनां विदेहसाधूनां च सामायिकचारित्रमिति तेषामेष दशविधः कल्पो नियत इति ।
ननु छेदोपस्थापनीयचारित्रं तत्कल्परूपश्च दशधाऽऽचेलक्यादिकः कल्पः, तर्हि पूर्वान्त्यजिनयतीनां सामायिकचारित्रस्य षाण्मास्यादिका स्थितिरिति तत्र न नियतं प्रतिक्रमणमिति ।
आद्यन्तजिनाभ्यां सप्रतिक्रमणस्यैव धर्मस्योपदेशात्तच्छा
आचेलक्यम्
॥७५॥