SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगमो द्धारककृति सन्दोहे ॥५२॥ SS मुक्तिसामग्र्यां संहननमिति । ननु शक्तिरूपं संहननं तच्च वीर्य - ( वीर्यान्तराय) क्षयोपशमादिसाध्यमिति गत्यादिमार्गणावहिर्गतेन संहनननामोदयेन, प्रतीतं चैतत् समर्थयत्नः कार्यकृदिति वाचाटशेखरो जिनवल्लभप्रभ एवं प्ररूपयेत्, न तु कोऽपि जैनागमानुसारीति । सूत्रेषु हि अस्थिनिचयस्यैव संहननस्य मतत्वात् । अत एव देवादीनां तथाविधशरीराभावाद संहननित्वमुदितं । एवं च यत् क्वचिदेवानामाद्यसंहननित्वमुक्तं तत्तु तथाशक्तिमत्तया गौणमिति । न ह्यग्निर्माणवक इति पाकार्थ तमादत्ते आप्त इति । प्र० नन्वयोग्यान्यपि शेषाणि संहननानि पुण्यप्राप्याणि पापोदयप्राप्याणि वेति ? उ०- प्रकृष्टातिप्रकृष्टपापोदय प्राप्याणि शेषाणि ततः शेषाणि पञ्चापि पापप्रकृतितया निर्दिष्टानि शास्त्रेषु सूरिभिरिति । प्र० ननु यथा शेषाणि संहननानि प्रकृष्टादिपापोदयप्राप्याणि अयोग्यानि मुक्त्यै तथा अनाद्यानि संस्थानान्यपि १, ततः किं वदप्याद्यमेव तद्योग्यमिति ? उ०- पापोदयेन नायोग्यत्वं प्रतिज्ञायते, अयोगिनोऽप्यन्त्यसमयात् प्रागसातोदयसम्भवात्, किन्तु परमशुक्लसाधनत्वाभावात् न च संस्थानानि तत्र साधकानि बाधकानि वा, ध्यानोत्पत्तावकारणत्वादिति । ननु पापोदयप्राप्याण्यपि अनाद्यानि संहननानि, समोदयप्राप्याणि वर्णादिचतुष्कवत्, एकेन्द्रियादिजाति चतुष्कवद्विषमोदयप्राप्याणि वेति ? | उ०- यद्यपि सामान्येनानाद्यानि संहननानि पापोदयप्राप्याणीत्युक्तं, तथापि बन्धाधिकार अन्त्यस्य मिथ्यात्वान्त्ये रोधः, चतुर्णां मध्यानां मिश्रान्ते, आद्यस्याविर संहननम् ॥५२॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy