________________
भागमो. द्वारककृतिसन्दोहे
॥२५८॥
मुख्यानां, कारणानां वियोगतः। वेदनादिभ्य आदत्तेऽवमौदर्येण भोजनम् ॥ ४६५ ॥ न्यूनोदरोऽपि शोभेत, वृत्तेः सङ्ग्रेप- IN/ श्रमणधकारकः। गोचरचर्याऽष्टकं तस्मा-मनिर्भिक्षाटने धरेत ॥४६६॥ आहारार्थ्यपि यः साधु-राहारौत्सुक्यवर्जितः। स धारये- || मसहस्त्री द् बहुविधा-भिग्रहान् गोचराटने ॥४५७॥ एवं निरुत्सुकः साधु-विदधानो भुजिक्रियां । तुल्योऽनशनिना सिद्धं, भ्रातृजायापगोद्धृतौ ॥४६८॥ भाति नो वृत्तिसङ्केपे, लाम्पटथं विकृतौ स्थितं । रसा दीप्तिकरा मोहे दुर्गतिश्च ध्रुवा ततः॥४६९॥ त्यागोऽतो विकृतीनां यस्तपोभेदस्तुरीयकः । उत्सर्गः शासनेऽप्युक्तो, विकृतीनां समुत्सृजौ ॥ ४७० ॥ विकृतौ लम्पटा भूप-मुदायनमुदाहरन् । नाज्ञासन् सुखजीवित्वं, राज्ञस्तस्य मदोद्धराः ॥ ४७१ ॥ सीमन्धरजिनेनोक्तं, चूलायां भिक्षुकीपुरः। अभीक्ष्णं निर्विकृतिका-वस्थां मुनिः समुद्हेत् । । ४७२ ॥ वचः पर्युषणाकल्पे, बलिष्ठानां न प्रावृषि । विकृतिनवकं ग्राह्य विकृतेर्विगतिर्यतः ॥४७३॥विकृतिरसपीनात्मा. बाध्यते स्वैरपीन्द्रियैः । विकारव्रातनिर्मग्न, आर्ते मजत्यनारतम्॥४७॥ दुर्व्यानं नरकद्वारं, ततो दुर्गतिमीरुकः । विकृतीवर्जयेत् प्राणान् , धारयेदन्नभक्षणैः ॥४७॥ सूत्राणामधीतौ यस्मा-दुद्देशादिविधिष्वलम् । आचामाम्लं समादिष्ट, तपस्त्वेन मनीषिभिः ॥ ४७६ ॥ प्रव्रज्यां प्रतिपत्सुः सा, रूद्धा भरतेन सुन्दरी। पष्टिवर्षसहस्राणि. व्यधादाचाम्लसन्ततिम् ॥.४७७॥ धातकी'वण्डभरते हृता द्रौपद्यनारतम् । षष्ठभक्तोत्तरं चक्रे, आचाम्लं परमं तपः॥ ४७८ ।। वर्धमानतपोऽनेके, स्कन्दकाद्या महानराः। आचामाम्लशतान्तं त-तपस्तेपुर्विमुक्तये ॥ ४७९ ॥ श्रीश्रीपालनृपोऽकार्षी-दाराधयितुमुद्यतः। अहंदाद्यां नवपदी-माचामाम्लानि सादरः ॥ ४८० ।। उपधानविधौ मुख्ये, विधिराचाम्लगोचरः । रक्षणे द्वारिकायाः प्राग् , जन आचामाम्लमादधत् ॥ ४८१॥ अधु
॥२५८॥