________________
IN श्रमण
आगमो
॥२५७॥
अन्येन्द्रियाणि योगाश्च, कषाया आहृतेर्यतः । तत आश्रयभीरूणा-माहारस्त्यागमहति ॥ ४४८ ॥ ग्राममोपी यथा
ID स्तेनो, यावद्रव्यागमं श्वसन् । नृपेण धार्यते मानात् , तथा मोक्षार्थिना वपुः ॥ ४४९ ॥ अत एव जिनैः शास्त्रे, धर्मसहस्त्री द्वारककृति
साधुदेहस्य धारणं । आख्यातं मोक्षहेतुभ्यः, परं निष्पापवृत्तितः ।। ४५० ।। धर्मस्य साधनं देह, आद्यमित्यपि लौकिकैः । सन्दोहे IN/ गीतं तदपि विज्ञानां. मान्यं तत्त्वविवेकतः ॥ ४५१॥ धर्मस्य नैव बाधा स्या-देहश्चद् धार्यते तथा । तदा न्यायोऽयमिष्टः
il स्या-दन्यथा धर्मिवश्चनम् ।। ४५२ ॥ सर्वकर्मक्षयो मोक्षः, संयमः सत्तपोयुतः। धार्यते चेत्तदा बद्धकर्मणां विलयो भवेत्
॥४५३॥ तपोयुक् संयमो देहात् सम्यग्ज्ञानादिपोषणात् । ततोऽनवद्यमार्गेण, देहधारणमिष्यते ॥४५४॥ तीर्थेऽस्मिंस्तप उत्कृष्टं, वर्धमानजिनादृतं । पाण्मासिकं विधातुं चे-तत्तकत्कुरुते यमी ॥ ४५५ ।। इन्द्रियाणां न हानिः स्या-नापि संयमसाधने । नाशुभध्यानवच्चेतो. यत्र तत्तप इष्यते ॥४५६॥ भेदेषु षट्सु बाह्येषु, तपोऽनशनमादिमं । अभावे पारणं तत्र, स्यादूनोदरतातपः ॥ ४५७॥ यद्यस्याहारमानं स्या-त्ततो न्यूनं यदाहरेत् । तदोनोदरता ज्ञेया. द्वात्रिंशत्कवला मितिः ॥ ४५८ ॥ DI एकेनापि विहीनाया-मस्यामूनोदरो भवेत् । कवलेनैकं कणं याव-भोजने न्यूनता मता ॥ ४५९॥ प्रकामभोजने रोगा, विकास मन्मथोद्भवाः । प्रकामभोजिता शोभा-वहा नो संयते मुनौ ॥ ४६० ॥ क्षुधायास्तीव्रता साधौ, वैयावृत्त्यसमर्थता। ईर्यायां स्थामयोगाश्च, संयमीयाः सजीवनाः ॥४६।। आहारे कारणान्येता-न्युक्तानि मुनिको विदैः। षट् तेषां साधुरापाते, आहरन हि दुष्यति ॥ ४६२ ॥ सत्स्वेतेषु कारणेषु, नाहारोच्छेदकारणं । आतंकादि तदा कार्याऽवमौदर्येण खादितिः ॥४६॥ कथञ्चिच्चेदुभी हेतू. तदा धेर्येण साधुभिः। कार्योऽधसो व्यवच्छेदो, रोगाद्याः प्रबला यतः ॥४६४॥ एवमातङ्क
-- ॥२५७॥