________________
आगमो
द्वारककृति
सन्दोहे
१२५५॥
कर्माणि, निरुन्ध्यात् संयमः सदा। परं प्रतिज्ञामादाया-वतेषु तं समाचरेत् ॥४१५॥ हीना प्रतिज्ञया या स्याद्द- A श्रमणध. या साऽभ्युदयावहा। कमरोधः प्रतिज्ञायां, साध्यमोक्षकसिद्धिदः ॥४१६॥ पापं विज्ञाय श्रद्धाय, प्रतिज्ञौचतिमञ्चति ।
मसहस्त्री पाल्या यावजीवमेषा, संयमोऽखण्डितस्तदा ॥४१७।। प्रतिज्ञापालनं तेषां, भीखो नासुखागमे। सौख्यागमे त्वनाकासा, ये स्युर्जीवितनिस्पृहाः ॥४१८॥ प्रसङ्गे सुखदुःखानां, ते स्युनिश्चलवृत्तयः। अप्रसङ्गेऽपि समुत्थाप्य, प्रसङ्गं ये सहिष्णवः ॥४१९॥ त एव सुभटा आजौ, जयं लब्धं समुत्सुकाः। प्रागेव ये कृताभ्यासाः, ‘सुखे दुःखेऽत्रधारणे ॥४२०॥ संयमस्य ततः सन्धां, परिपालयितुं नरः। कुर्यादादावेव दुःख-सुखापातस्थिरात्मताम् ॥४२१॥ स्वरूपं तपसो ह्येतत् , सत्सुखं यदपोज्झ्यते। असद्दःखं समुदीर्य, वेद्यते शुद्धचेतसा ॥४२२॥ अत एवोदित कैश्चित् , तपस्त्याज्यं व्यथोदयात् । यत्कर्मोदयतो, दुःख, न च तन्मोक्षसाधकम् ॥४२३॥ परं न तपसस्तचं, ज्ञातं तैर्लुब्धबुद्धिभिः । कर्मोदयजदुःखस्या-ङ्गीकारो धर्महेतवे ॥४२४॥ अन्यथा सदयः सत्यो, ब्रह्मचार्यपरिग्रहः । पदे पदे स्वमात्मानमपयेत्किं व्यथावलिम् ? ॥४२५॥ पारिव्रज्यं न कि सौख्य-त्यागदःखोदयात्मकम् ? । विवेकरक्षकाः किं न. सौख्यत्यागासुखोदयाः ॥४२६॥ तपस्विनं ह्याक्षिपन्ति, जडा यत्-पापयुग भवान् । अवतीर्णः क्षयायास्य, यदेवं तप्यते तपः ॥४२७॥ न च ते जानते स्वेषां, रागद्वेषमुहात्मनां । जन्म यद्वीतरागाणां, जन्माज्ञानं न सम्भवेत् ॥४२८॥ आत्मसात् प्राग्भवे यानि, कर्माणि प्रचितानि तु। क्षयस्तेषां कथं स्याच्चे-ब तपस्तप्यते धनम् ॥ ४२९ ॥ तेषामेव हि ज्ञानाग्निः, मज्वलेत् कर्मदाहकः । सुखदुःखसहिष्णुत्वं, तपसा येन जायते ॥ ४३० ॥ स्थिरप्रज्ञत्वमास्थाय,
॥२५५॥