________________
आगमो
हारककृति
सन्दोहे
॥२५२॥
ZZ
अवाप्त केवलज्ञानं भरतं क्ष्मां गतो हरिः । नानमत् प्राग्नतस्तं तु प्रव्रज्याग्रहणादनु || ३६५|| लोकानुभाव एषोऽग्रयो यद्गतिर्न पराऽच्युतात् । संयमेन विहीनानां तद्वतामेव तद्गमात् ॥ ३६६ ॥ दीक्षाया एव महिमा, यच्छक्रो जिनराकरात् । स्वर्णकोटीसहस्राणा - मन्दं दानं विधापयेत् ॥ ३६७ || आमशौषधिप्रमुखा, लब्धयः संयमोद्भवाः । स्युर्जवाचारणाविद्या- चारणाः संयमोङ्कुराः || ३६८ || मनःपर्यायविन्नैव, गृहस्थानां सुधर्मणां । संयमस्य पताकैव, संयमी प्राप्नुयात्तकाम् || ३६९ || संयमस्यैव रक्षायै, द्वादशाङ्गी गणेशिनः । रचयाञ्चक्रिरे शक्रा, गन्धोत्क्षेपाद्ययुस्तदा ||३७०॥ स्यात्पारम्पर्यमच्छिन्नं यावत्तीर्थं मुनीशिनां । शासने संयमस्यैवा - मीषां सदा नामादिकीर्तनम् ॥३७१॥ स्थविराणां कीर्तनीयाऽऽवली कल्पस्य कर्षणे । मङ्गलं कीर्तनं तस्या, जिनावल्युक्तिपूर्वकम् ॥३७२॥ महिमा संयमयोग्रो, लुञ्चने मुनिमस्तके | आतपत्रं धरेच्छक्रो. गीरेषा कल्पिका पुनः || ३७३ || धारणे संयमस्योक्तौ, शक्ते राजपरिच्छदात् । साध्वीवेषेण सूरीणां राजपुत्रस्य गोपनम् || ३७४ || चिरं संयमयात्रायै, निर्ग्रन्था आपदं गताः । सेवमानाः पदं शुद्धा, द्वितीयं ह्यापवादिकम् ॥ ३७५ ॥ एतत् संयमसाम्राज्यं चक्रिणोऽपि मुनि नताः । प्रेष्यस्यापि च प्रेष्यत्वं पुरा येऽधुः स्वशासने || ३७६ ॥ जैनशासनसाम्राज्यं स्त्रीणां यत् संयमो मतः । केवलं निर्वृतिं तासां, दत्ते पूर्णस्वभावनः || ३७७|| आईते शासने नूनं, देशतः सर्वतोऽपि वा । स्त्रीणां मतः संयमो य - नात्रता स्त्री मता श्रुते | || ३७८|| असैत्सुर्य च सिध्यन्ति ये सेत्स्यन्ति त्वनागते । हीनाः स्त्रीभ्यो मताः पुस्र्भ्यः, सङ्ख्यया शास्त्रको विदे: ३७९ ॥ पुंचिद्वाण्डद्वयोपेता, प्रतिमा पारमेश्वरी । नग्नाटश्च मुनिर्येषां तेषां ) स्त्रियो नो
भ्रमणध सहस्री
॥२५२॥