________________
आगमो
द्धारककृति
सन्दोहे
॥२५९॥
सामायिकतया स्थितं । सावयसेवनत्याग - हेतुकार्यतया मतम् || ३४९ || अतः प्रावृविहाराद्या, ज्ञानाद्यर्थाः क्रिया मताः । संयमस्यापवादेषु, नेर्यायां पाठविच्युतिः || ३५० || ज्ञानदर्शनसम्पद्भ्या-माढ्या गतिचतुष्टयी। मोक्षो नरगतौ यस्मात्, तत्र पूर्णोऽस्ति संयमः || ३५१ ॥ प्रागन्यगतिदायुष्क - बन्धिनो ज्ञानदर्शने । प्राप्नुवन्ति भवांश्चैते, पल्यासङ्ख्यांशमानकान् || ३५२ || भवानव चारित्र - मेकेनाह्ना विमानिता । अभव्या अपि चारित्राद् ग्रैवेयान्तं समियूरति ।। ३५३ || युग्मम् || विभ्रत्त्रीय प्रतिपातीनि, जिनो ज्ञानानि गर्भतः । जगतः क्षेममाधातुं, नियमात् संयमं धरेत् || ३५४ || परिषहोपसर्गान् स, जयेद्भव्यहितेच्छया । विना न संयमं कोऽपि, जिनः प्राप्नोति केवलम् || ३५५ || संयमेन गता सिद्धि, सबाह्यान्तररूपिणा । स्वलिङ्गसिद्धाः प्रोच्यन्ते परे गृह्यन्यलिङ्गकाः || ३५७ || संघं स्थापयितुं सार्वो, जिनो दिशति देशनों । चेत्संयमं न कोऽप्यङ्गी - करोति तर्हि निष्फला ||३५८|| अनन्तेऽपि गते काले, नाभूदेतत्पुनः क्वचित् । जिनस्य देशनाऽऽद्या स्यात् संयमाभावतोडफला ||३५८ || दीक्षाकाले जिनेन्द्राणां स्वर्गादागत्य निर्जराः । लोकान्तिका जिनं प्राहु-स्तीर्थं भगवन् ! प्रवर्त्तय ॥ ३५९ ॥ एवं च संयमं तीर्थ, मार्गे ज्ञानादिके त्रिके । जिनस्य शासनं तिष्ठेन्नैव संयममन्तरा ॥ ३६० ॥ संयमस्यैव माहात्म्यं, यन्मासादिप्रमाणतः । सुखासिका तैजसी स्याद्वर्षान्तेऽनुत्तरप्रदा ॥ ३६१ || जिनेन संयमो दिष्टो, मोक्षायैव गणेशिने । परं तद्योगमाहात्म्यं यत्स्वर्गसुखमाध्यते ॥ ३६२|| संयमस्यैष महिमा, यन्नम्याः साधवो सर्वे तत्सहायकारित्वा-च्छासनस्य पदे पदे |||| ३६३॥ जिना यथा नमन्तीद्धं, तीर्थ संसदमागताः । सुराश्चक्रु - रादौ संयमिवन्दनम् ॥३६४॥
+
मताः । तथेन्द्राद्याः
भ्रमणध
सहस्त्री
।। २५१ ।।