________________
थका
आगमो. द्वारककृतिसन्दोहे
॥२५०॥
हेतुर्दर्शनं विना । अमेध्योत्करसदृक्षा-स्तस्मानापुस्तकन्ननु ॥३३३॥ जीवाद्यस्तित्वमानी स्या-दवश्य
श्रमणधकर्मकामनः । गति बहुविधां जानन् , स स्यान्निर्वेदनिर्भरः ॥३३४॥ निविण्णो मोक्षमाशंसु-रनुकम्पां सदा ISI मसहस्री धरेत् । ततः संयमसाकासो, दर्शनी नान्यथा भवेत् ॥३३५॥ श्रुत्वा पैशाचिकाख्यानं, कुलवध्वाश्च रक्षणं । संयमोद्योगरक्षार्थ, स्वाध्यायाद्यादरः पुनः ॥३३६॥ ज्ञानदर्शनधर्तणां, न्यनताऽऽत्मनि भासते । तेन देशविराधित्वं, शास्त्रे तेषां प्रगीयते ॥३३७॥ अज्ञोऽपि प्राप्य चारित्रं, समृद्धोऽस्मीति मन्यते । अतः केवलशीलस्य, देशाराधकता मता ॥३३८॥ पदानि पञ्च पूज्यानि, शासने परमेष्ठिनां । सर्वाणि संयमाढ्यानि, सिद्धे स्वरूपसंस्थितेः ॥३३९॥ अष्टादशशीलाङ्गानां, सहस्राणि तु संयमे । तेनैकादशीकाः श्राद्धा, अपि नो नम्यतामगुः ॥३४॥ अपवादपदेन स्या-द्या काचिदङ्गबाधना। संयमार्थतया सा नो, शुद्धेश्च स्याद्विरोधिनी ॥३४१॥ संयमो ज्ञानदृग्वृत्तं, हेतुर्मोक्षेऽङ्गहेतुकं । ततस्तद्धारणायाहु-र्मुधाजीवित्वमाहताः ॥३४२॥ यावजीवमविश्राम, सर्वान्यनिरपेक्षतः । साधुभिर्धारणीयोऽयं, मोक्षमार्गानुगामुकैः ॥३४३॥ विचारे तत्त्वपूगस्य, श्रद्धा ज्ञान तु वेदने । आत्मस्वास्थ्यनिमग्नत्वं, संयमस्तु प्रतिक्षणम् ॥४४॥ हानोपादानयोग्याना-मर्थानां स्वल्पता भुवि । उपेक्षा संयमस्याद्धा, व्यामोति जगतीत्रयीम् ॥३४५॥ छद्मस्थानां भवेज्ज्ञानं, हेयादेयफलेग्रहि। उपेक्षाधनमेवात्र, केवलं संयमः सका ॥३४६॥ उत्कृष्टः संयमः सर्व-सवरो यनिरुध्यते । योगानामपि चेष्टाऽल्पा, निर्जरा केवला तत. ॥३४७|| अत एव ह्ययोगानां भेदौ संसारिमवतयोः। सामायिकादिचारित्र-प्रतिज्ञा भवभाविनी ॥३४८॥ अनवद्यासेवनं यत्,
॥२५॥