________________
श्रमणध
॥२४९॥
आगमो- A रक्षाभिधं मार्ग, देशकः सञ्चरन् भवेत् ॥३१७॥ वर्तमाने भवे यो न, दुःखमण्वपि देहिनां । न कुर्यादागूमास्थाय, स प्रष्ठो द्वारककृति- | धर्मदेशकः ॥ ३१८ ॥ अव्रताक्षकषायान् यो, निरुणद्धि सुयोगवान् । अर्हतां संयमे यायात्तदर्थाय धृतोपधिः
मसहस्री ॥ ३१९ ॥ अतोऽसौ सप्तदशधोच्यतेधिकार्यपेक्षया । पर्यङ्कितोग्रहश्चैव स्वरूपं सन्दोहे
जीवरक्षणम् ॥ ३२० ॥ स्थावरत्रसजन्तूना-मभिघातादिवर्जने । संयमः कर्मबन्धानां, रोधोऽतो निर्जराऽपि च ॥३२१॥ यतमानो यतिर्हिसा-मापन्नोऽपि न हिंसकः । तत्कर्मवेदनं शीघ्र-मतोऽसौ निर्जराफला ॥३२२॥ यो जीवानां परित्यज्य, यतनां वर्तते यतिः । पापानि कटुपाकानि, स बध्नाति पदे पदे ॥३.३॥ अतो जीआदितत्त्वानां, ज्ञानमादौ हितं मतं । मोक्षेच्छाऽहंद्वचःश्रद्धा, मुनेः षट्कायगोचरा ॥३२४॥ अत्रोपयोगि सर्व तत् , संयमस्य फलं महत् । लोकपर्यन्तवर्तित्वान्तं शास्त्रकृतेरितम् ॥३२॥ अज्ञानं निन्द्यते शास्त्रे, . संयमस्याकृतेः पुनः। तद्वान् वेत्ति न पुण्यं चा, न पापं वाऽनवबोधतः ॥३२६॥ ज्ञानत्वे नैव रुचिरं, किं तु हेयादिबोधनात् । दावे पङ्गोः फलं किं स्यान् , नेत्राभ्यां वीक्षणादपि ॥३२७॥' नयाः शुद्धा अतो मोक्ष-माहुः संयममेव च। बन्धाभावनिर्जराभ्यां, सोऽस्मादेव प्रसिध्यति ३२८॥ दीपनेत्रे प्रयुज्येते, रजसां परिशोधने । न शोधनोद्यमस्ताभ्यां, किन्तु स्यातां तटस्थिते ॥३२९॥ तथापि नान्यथासिद्धे, ते यत्तत्परिणामतः । मतः पापक्षयस्ते च, ज्ञानदर्शनबृंहिते ॥ ३३०॥ आवर्जीकरणान्मोक्ष-स्तच्च केवलज्ञानतः । क्षय्याणां कर्मणां श्रेणेः, करणं नान्यतः पुनः ३३१॥ जानाति । कर्मणां सच, यं श्रेण्या. अधिकं पुनः। केवलेन क्षयीकर्तु-मादृतः स्यात्समुद्धतौ ॥३३२॥ संयमः . केवले . IN
॥२४९ता