________________
श्रमणध.
आगमांद्वारककृतिसन्दाहे
मसहस्त्री
॥२४३||
Gadwww
भुवि । कुपथास्ते मृषावाद-मूलाः स्वार्थैकसाधनाः ॥२१८|| कुदेवाः देवता स्वेषां, गुरुतां कुत्सिताः पुनः। गुरवा गुरुताहीनाः, प्रकाशन्ते मृषोदितात् ॥२१९॥ द्विजाद्याः स्वार्थसिद्धयर्थ, कुधर्माणां तु सुधर्मतां । कथयन्तो जनांश्चित्रं, मुष्णन्त्यात्मादरम्भराः ॥२२०॥ सर्वमेतन्मृषावाद-प्रभावाजायते पुनः । स्थाप्यतेऽप्यनृतां कृत्वा, युक्तिं मुग्धप्रतारकैः ॥२२१।। न ज्ञानं म्यादमूर्ताना-मात्मादीनां विना विदं । केवलाख्या. ततो तेऽमूनाहुस्ते हि मृषागिरः ॥२२२॥ शब्दो रूपं न गन्धोऽस्ति, रसः स्पर्शोऽपि लेशतः । आत्मन्यतो न सर्वज्ञ-मृते तत्सत्यवादकः ॥२२३॥ आत्मैव ज्ञायते चेन्ना-सर्व स्तर्हि तद्गतं । परिणामस्य वैचित्र्यं, जानीते कथमीदृशः ? ॥२२४॥ अज्ञाते परिणामे तु, न ज्ञानं तत्परावृतेः । तदज्ञाने च बन्धस्य, वृथा वार्ता क्षयस्य च ॥२८॥ बन्धे माक्षे न ज्ञानं चेद्, धर्माधर्मकथा वृथा । तत् सर्वज्ञ विना कोऽपि, स्यान्न तत्त्वार्थसत्यगीः ॥२२६॥ लोकेऽपि पापमुत्कृष्टं, मृषावादोद्भवं मतं । तत्सत्यवचनोक्तीनां, धर्मत्वं स्यादनाहतम् ॥२२७॥ निषिद्धेष्वन्यपापेषु, चेन्मृषाभाषणादरः । सर्व निरर्थकं बौद्ध-साधुदृष्टान्ततो मतम् ॥२२८॥ जगत्सर्व यथाभावं पुण्यतो नातिवर्तते। पुण्यं शुभात्मचित्तेन, तत् पुनः श्रुतिसम्भवम् ॥ २२९ ।। श्रुतयश्च यथार्थाश्चेद् , जगद्वस्तुनिरूपिकाः । तदा पुण्यममर्यादं, श्रोतारश्चिन्वते ननु ॥२३०॥ इत्थमालोच्य विद्वद्भि-गीयते यत्प्रतिष्ठितं । सत्ये सर्व जगल्लोको, यत्पुण्येनानुकूल्यभाक ॥ २३१॥ श्वभ्रादिसंस्थिता जीवाः, पापप्राचुर्यपूरिताः । तेऽपि पूर्वावतारेषु, अतोत्तीर्णक्रियावहाः॥२३२॥ तदित्यं श्वभ्रलोकोऽपि, श्रुत्यनादरभावतः। समयं पापप्राग्भारं, तथाभावं प्रपेदिरे ॥ २३३ ।। श्रुतयश्चेद्यथार्था न, तदुक्ता-नादृतेरचं । न स्यादेवं च न श्वभ्रो, लोकोऽपि सत्यमन्तरा ।। २३४ ॥ मोक्षोऽप्यनादिकालीन
॥२४३॥