________________
भ्रमणध
मागमोद्वारककृतिसन्दोहे
मसहस्त्री
||२४२॥
.MAP
ज्ञातं, मेतार्याद्या महर्षयः । दोषे ब्रह्मसुभृमाद्याः, परत्र शिवसङ्गतिः ॥२०२॥ सुष्टु ज्ञानं भवेदेषां. भेदानां परतो वचः। यदि तथ्यं तदा तथ्या, स्यादहिंसाऽन्यथा न तु ॥२०३॥ संसारमोचका यज्ञे, पशुधातविधायिनः। मांसभक्षा अनाचारा, अहिंसां किं न मन्वते ? ॥२०४॥ मुख्या चैवमहिंसाऽपि, हिंसा स्यात्परमार्थतः। ज्ञानेऽतः सत्यता वाचि, याथार्थ्यं च यदा भवेत् ॥२०५॥ तदैव जायते तत्त्वा-दहिंसा स्वःशिवप्रदा। अतोऽत्र दशधा धर्मे, सत्यं सङ्गीर्यते बुधैः ॥२०६॥ लोके यत् सत्यमुद्गीण, तेनैवात्र प्रयोजनं । न व्युत्पन्ना यतो बुद्धि-रादौ सत्ये श्रुतेरिते ॥२०७॥ लोके यन्न मृषा सत्यमिति सङ्गीयते यतः । व्यवहारपरो लोकः,सत्यं प्रत्येति लोकतः ॥२०८॥ तत्त्वतोऽसत्यमप्येष, सत्यं ब्रूते जनमतं । नाम्ना धनपति निःस्व-माहाबुद्धिं महामतिम् ॥२०९॥ लोकोत्तरे मतं विज्ञैर्वचः सत्यं तथागतम् । असत्यं तद्विरुद्धार्थ, मिश्रं चोभयरूपकम् ॥२१०॥ ब्यवहारगतं वाक्यं, व्यवहारकर नृणां । विलक्षणं न पापाय, यन्न बुद्धिस्ततोऽन्यथा ॥२१११॥ अत एव मतं सद्भिद्वितीयं तु महाव्रतम् । मृषोक्तिविरतिरूपं, न सत्यवदनं पुनः ॥२१२॥ यथोत्पत्तिक्रमो जीवे, मत्यादीनां तथा श्रुते । मत्यादीनि मतान्याप्तैः, पञ्च ज्ञानानि प्राणिनाम् ॥२१३॥ पश्चैवात्तयस्तेषां, क्षयादि च गुणक्रमात् । तथापि श्रोतृलोकानु-गुण्यमाश्रित्य सूरिभिः ॥२१४॥ द्वैध चतुर्धा वा मान-माख्यातं श्रुतसागरे। ज्ञानानामवतारोऽपि, मानद्विके श्रुते मतः ॥२१॥ अनुयोगकृतां पप-जनमाश्रित्य कीर्तनं । जनो मानं चतुर्धापि, मनुतेऽतस्तथोदितम् ॥२१६।। तथात्र व्यवहार्याणां, वाचां सत्यत्वमाश्रितं । लोको न च्छलनां यायाद्वितथं न च बुध्यते ॥२१७॥ उत्पन्ना उत्पत्स्यन्ते चोत्पद्यन्ते समे
॥२४२॥
འང་