________________
IKI
श्रमणध
भागमो
मसाली
सन्दोहे
॥२४॥
समुच्छेदाद् गुणस्थानस्य, वर्धनं । पुरोगानां पुनस्तत्र, बन्धादिच्छेदनं पुनः ॥१३४॥ न कषायजिता देवाः, कषायप्रेरको गुरुः। न कषायमयो धर्मो, धर्मस्तेषां जयः पुनः॥ १३५ ॥ जीवाः कषायिणो हेतूंश्चेत्तेषां कुर्वते पुरः। शरणायागताः सत्त्वाः, कथं मोक्षमवाप्नुयुः ॥१३६॥ सुदेवगुरुधर्माणां, चेत्समीहा तनीयसी । शुद्धथै तदा श्रये श्रेष्ठान् , निष्कषायानमून् सुधीः ॥१३७॥ संसारेऽनादिके जीवा, भ्राम्यन्ति कर्मनो दिताः। कषायवशतस्ते च, कर्माणूनां ग्रहे रताः ॥१३८॥ कषायकर्मणामेवं, सन्ततिगाबाधना । संसारश्च ततोऽसूनां, नित्यो बीजार्कुरौ यथा ॥१३९॥ योगचाश्चल्यभृञ्जीवः, कर्माणूनभ्रदेशगान् । आकृष्यात्मनि बध्नाति, संयोगः क्षीरनीरवत् ।।१४०।। कर्माणूनां ग्रहो जातिश्चेति युग्मं प्रयोगजं । यद्योगः कार्मणश्चित्रो, जीवे प्राकालसञ्चितः ॥१४१॥ यागस्यापि भवेद्भेदः, सकषायाकषाययोः । कषायकारकं कर्म, नाकषायो धरेदसुः ॥१४२॥ न भवान्तरमाधत्ते, निष्कषायस्ततः स्फुटं। सकषायगतो योगो, भवदं कर्म संसजेत् ॥१४३॥ भवमात्मगुणाच्छेद, विधने कर्मणि श्रिते । रसः स्थितिश्च तयुग्म, सदा कुर्यात् कषायभाक ॥१४४॥ मिथ्यात्वाद्या मता नैक-हेतवोत्र मनीषिभिः। आश्रवे बन्धने जातो. न कषायान विना तथा ॥१४॥ कर्मणामणवो जीवे. लग्ना नायान्ति बध्यताम् । अकपाये यथा शुष्के वुड्ये गोलो रजोमयः ।।१४६।। जन्म मृत्युर्जग रोगः. शोको योगवियोगजः । जन्तूनां भ्राम्यतां नैते, दुर्लभाः म्युः पदे पदे ॥१४७॥ चेतना प्राणिनां रूपं. जडा पुद्गलजाः परे । बद्धस्तैः प्राणिति प्राणान् , जीवः कर्मवशंवदः ॥१४८॥ या काचिच्चनना जीवे, स्फुरेत साऽक्षादिसम्भवा । तदात्मा पुद्गलायत्तो. न स्वतन्त्रो मनागपि ॥१४९॥ पूर्ण सपमपौद्रलय-मनन्तं स्थिरमव्ययं । विना शिवं न कुत्रापि, परे स्थाने भवेऽखिले ॥१५०॥ पुगलैर्वियुतो जीवः, स्वभावस्था
॥२४॥