________________
श्रमणध
आममो
मसहस्री
छारककृतिसन्दोहे
॥३३५॥
कल्याणे कोविदाः पुनः । कर्मण्य खिलकायोत्के नृताख्यानाः शठाः परे ॥ ८५ ॥ कुदेवे रूपमारोप्य, देवतायाः कुसाधुषु । साधुताया अधर्मे च, धर्मस्य ब्रुवते शठाः॥८६।। अपलप्य वीतरागं, सर्वज्ञ सर्वदर्शिनं । स्याद्वादाङ्किततत्त्वोक्ति, वदन्ति मायिनोऽपरान् ॥८७।। महाव्रतधरान् धीरान् सदा धर्मपरायणान् । शठा विलोप्य सत्साधून, गृहिणां गुरुतां जगुः ॥८॥ स्वर्णोर्यथा वेत्ता, हेयोपादेयतां वदेत् । हेयोपादेयताख्यायी, विज्ञः शाठ्येन दुष्यते ॥८९। सन्मुखं क्रोधनो हन्ति, मानी धिक्कुरुते स्फुटं । माया प्रच्छन्नघाताढ्या, प्रायो विश्वस्तघातिनी ॥९०॥ मातरं पितरं पुत्रं, स्वसारं पतिमाश्रितं । पत्नी स्नुषां सम्बन्धाढ्यान् , विश्वस्तान् छलतीप्सितान् ॥९१।। दुःखं रोहावधि क्रोधान्मानतश्चिन्तनावधि । मायापाशकृतं दुःखं, यावजीव सुदुःसहम् ।।१२।। क्रोधनो घातिनं हन्ति, मान्युत्कृष्टस्थिति नरं । माय्याव्यं च धर्मिष्ठं, हन्तुं धावति सन्ततम् ॥९३।। क्षग क्रोधस्य, मानस्य, धातु मार्त बलिष्ठता। मायाया अर्थसिद्धयापि, नान्तोऽतस्तत्परम्परा ॥१४॥ क्रोधान मानाच्च संस्कारो, नान्यस्योद्भवति स्फुटः । प्रयुक्ता मायिना माया, शतशाख प्रवर्धते ॥९५॥ प्रणामो नाशकः क्रोधे, सत्क्रिया माननाशनी। मायाया ब्रह्मणाप्यन्तः, शक्यः नव नरैः किमु ? ॥९६॥ क्रोधो मानश्च सक्रान्ती, धर्मस्याप्ति निषेधतः। माया प्राप्तस्य धर्मस्य, नाशं कृत्वाऽधमं सृजेत् ॥९७॥ साधू पीठमहापीठौ, मल्लीजीवो महाबलः । संयमाढ्याः समेऽपीमे, जाताः स्त्रीवेदिनस्ततः ॥९८॥ आचार्याणां गुणांश्चित्त, चिन्तयांचक्रतुद्धषि । संयमे सहगामित्व-मपाचक्रे महाबलः ॥९९॥ युग्मम् ॥ शिक्षां लात्वा यतेताग्रे, क्रोधी मानी च वीर्यतः । मायाराक्षसीग्रस्तस्तु, विश्वस्याहस्ततिं व्रजेत् ॥१०॥ दग्धे सम्मूछिमा तृण्या, स्वल्पं धान्यं शिला
॥२३५॥