________________
आगमो
द्वारककृति
सन्दोहे
॥२३३॥
आदौ तद्धर्मस्वाख्यायी, दिशेन्नृभ्यः पुरा समाम् ||२१|| विकारा देहजाः सङ्गात्तद्वतां प्राकृताघतः । भवन्त्यनुपदेशेन, समग्रेष्वपि जन्तुषु ॥२२॥ धर्मः स्यादात्मसामर्थ्यात्, तत् स्फुरेद् गुरुवाक्यतः । अल्पे ततोऽप्ययुधर्म, गुरवो न हि सर्वगाः ||२३|| आयातेऽपि गुरौ धाम, ज्ञायन्ते चेन्न तद्गुणाः । तेषां गीर्षु कथं वाञ्छा, श्रवणाय भवेन्नृणाम् १ ||५४ || मानं निहत्य चेत्तेषा–मुपसर्पेत् पदान् सुधीः । श्रोतुं विनीतरूपः सन् देशनां धर्ममाप्नुयात् ॥ ५५ ॥ स वेवेक्ति श्रुतं धर्म, यः स्यादादरभाक् पुमान् । आख्यातृषु, न मत्तानां हृदि सोऽशत आप्यते ॥५६|| घातान्मानस्य गुणिनां गुणेषु स्यान्महादरः । ततोनुचिन्तनं धर्म्य, धर्मस्याप्तिस्ततो भवेत् ||५७|| क्रोधो व्याहन्ति संसर्ग, धर्मिणां श्रवणं श्रुतं । मानेन हन्यते तस्मादार्जवं धर्ममाश्रयेत् ||५८ || संवरो निर्जरा चेति, द्वयं स्वरूपभाग्भवेत् । क्रोधमानहतौ धर्म-माख्यान्त्याप्तिविदांवराः ॥५९॥ तदेतद् द्वयमाम्नातं, द्वेषरूपतया यतः । प्राप्तिं प्राप्तं च हन्यातां, धर्महेतुं श्रुतागमम् ॥ ६०॥ मानात्साधर्मिकं द्वेष्टि, मानादुद्विजते गुरोः । अज्ञातं ज्ञातमाख्याति, नाधीतमपि चागतम् ॥ ६१ ॥ जितवांश्चक्रिणं पूर्व, योधनैः पञ्चभिः पुनः । सुरासुरनरेन्द्राणां हृतो बाहुबलिर्मदात् ॥ ६२ ॥ विशाखनन्दी राज्यं सत्समृद्धि सकुटुम्बकं । त्यक्त्वा महातपा जातो, यातो मानान्निदानिताम् ॥ ६३ ॥ मानाच्छ्रीस्थूलभद्रोऽगाद्वैक्रियं सिंहमात्मनः । भगिनीनां पुरो, नान्त्यां चतुष्पूर्वी श्रितोऽर्थतः || ६४ || सीतामरखलिताचारां, रावणो नापर्यद्धरिं । जीवराज्य कुलध्वंस - माप्तो मानाद्विदन् परम् ॥६५॥ श्रुत्वा स्वोत्पत्तिमश्लीलां, मानमाप्तो महेश्वर । लूनशीर्ष व्यधात्किं न, ब्रह्माणं तदुदीरकम् १ ||६६ || मानादात्मनि नासीद्यो, गुणस्तं ख्यापयन् जनान् । क्रुद्धो जिनाय तं जेतुं किं नागाद् गौतमो गणी १ ॥६७॥ मानात् किं नादिशश्चक्री,
भ्रमणध
सही
२३३