________________
आगमो
द्वारककृति
सन्दोहे
॥२३२॥
त्रापरात् पुनः । मदिष्णोः शाठ्यंतो लुब्धान्नाकृत्या भीषणा हि ते ॥ ३४॥ दग्धा द्वारावती क्रुद्धेनाग्निनाsहरि रामिका । द्वैपायनेन यथातौ, हरी रामश्र दक्षिणां ॥ ३५|| हस्तिनागपुरं दग्धुं सम्भूतमुनिरुद्यतः । क्रोधाग्निना ज्वलन पौरैः, क्षामितश्चक्रिणा पुनः || ३६ || कमठः क्रोधनोऽम्भोभिरुपाद्रौषीज्जिनेश्वरम् । आपगायां सनावं तु, वीरं मङ्गक्तुं समुद्यतः ॥३७॥ सुष्टः क्रोधनः सिंहः, पूतना शीतदुःखदा । श्रुत्यो रयः शलाकां तु चिक्षेप गोपतिः क्रुधा ||३८|| असम्बद्धं महावीरं, दग्धुमेतस्तु कौशिकः । क्रुद्धो दहन् न वेवेक्ति, सज्जने दुर्जनेऽपि ॥ ३९ ॥ बोधतो हालिकः क्रोधाच्छ्रमणीभूय सङ्गतः । दृष्ट्वा वीरं काकनाशं ननाशाश्वतोद्यतः ||४०|| तीर्थेशा अपरे भक्तान्, भापयन्ति क्रुदग्निना । दीपनायैव क्रोधस्य, दधु- वास्त्रपरम्पराम् ॥४१॥ महिमा गीयते विष्णोः, कंसदैत्यविनाशतः । त्रिपुरारितया शम्भो, रामस्य रावणान्ततः || ४२ || दुःखदौर्गत्यदायित्व - मीश्वरस्य प्रगीयते । अमुत्र श्वभ्रपातं च क्रुद्धः सृडू नृषु सर्जति ॥४३॥ इत्येवं क्रोधप्राबल्य - महिम्नेश्वरमाश्रिताः । तद्वाच्यं सज्जनैरादौ, न क्रोधांशोपि सत्पथे ||४४ || ध्वस्ताः परे ततो देवाः, क्रोधवह्वयुद्धतास्तके । तदेवगुरुधर्माणां पदं क्षान्तिपरा नराः || ४५ || ऋषयः शापदानेन, भाषयन्तोऽधवर्त्मसु । रस्ते कथं पूज्या, गुरुतापद मियियुः १ || ४६ || योद्धायार्पणमस्त्राणां, क्रोधाग्नाविन्धनात्मनां । नांशतोऽपि भवेद्धर्मे, क्षान्तो देवो गुरुर्वृषः ॥४७॥ तत्सद्धर्म समाख्यन्तोऽवश्यं क्षान्ति जगुः परां । नाग्नौ भव्यं भवेत् किञ्चित्, पुण्यं तद्वत् क्रुधात्मनि ॥४८॥ ततो धर्मो मतश्चित्ते, विधेयो यस्य नीतितः । पुंसस्तेन पुरा कार्या, क्षान्तरात्मनि संस्थितिः || ४९|| अष्टादशाघधामानि तेष्वाद्यं प्राणिहिंसनं । अप्रतिकार्य सर्वनं प्रायो वैरात् क्रुधश्च तत् ||५० || शेषधर्मार्हतामाप्तुं क्रोधं वैरं वधं त्यजेत् ।
श्रमणध
सहस्त्री
॥२३२॥